Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
૪૨૧ -तन्त्र्यविभ्य ई:" (उणा० ७११) इति ईप्रत्यये तन्त्रीः, “लक्षीण दर्शना-ऽङ्कयोः" इत्यस्माद् “लक्षेर्मोऽन्तश्च" (उणा० ७१५) इतीप्रत्यये मागमे च लक्ष्मीः, तथा “श्रिग् सेवायाम्" अत: “दिद्युद्ददृज्जग०" (५.२.८३) इति निपातनात् क्विपि दीर्घत्वे श्रीः, “भ्रमूच् अनवस्थाने" अतो "भ्रमि-गमि-तनिभ्यो डित्" (उणा० ८४३) इति डित्यूकारे भ्रूः; अथैतत्पक्षोक्तदोषपरिजिहीर्षया स्त्रियावीदूतो यस्य तत् स्त्रीदूदिति बहुव्रीहिः, अत्रापि स एव दोषः, समुदायस्यैव स्त्र्यर्थत्वान्नावयवस्येति, उच्यते-उभयथाऽप्यदोषः, तत्र पूर्वस्मिन् पक्षे ईकारान्तादूकारान्तात् स्त्रियां वर्तमानादित्युच्यमाने तन्त्र्यादिशब्देभ्योऽपि कृद्धात्वीकारान्तोकारान्तेभ्यः स्त्रियां वर्तमानत्वात् प्राप्नोतीति, द्वितीयेऽपि पक्षे समुदायधर्मस्यावयवेऽप्यारोपात् कृत्स्त्रिया अपि सिद्ध्यतीत्युदाहरति-लक्ष्म्यै इत्यादि। एवमिति-"बृहु शब्दे च" अतः "बृंहेर्नोऽञ्च" (उणा० ९१३) इति मनि नकारस्याकारे च ब्रह्मन्, बनातेः “भृ-मृ-तृ-त्सरि०" (उणा० ७१६) इत्युकारे बन्धुः, ब्रह्मा बन्धुरस्या: "उतोऽप्राणिन०" (२.४.७३) इत्यूङि ब्रह्मबन्धूः, वर्षन्ति मेघा आस्विति भिदादित्वादङि आपि च वर्षाः, तासु भवतीति भवतेः क्विपि वर्षाभूः। स्त्रिया इत्यनुवर्तमान इति-स्त्रिया इति वर्तते स्त्रीविषयार्थम्, पुनः स्त्रीग्रहणाञ्च स्त्रीविषयावेव यौ स्त्रीदूतौ ततः कार्यम्, तेन 'ग्रामण्ये सेनान्ये स्त्रिये' इत्यत्र न भवति, ग्रामण्यादिशब्दो हि क्रियाशब्दत्वात् त्रिलिङ्गत्वान्नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः। पूर्वसूत्रे इष्वशनिप्रभृतीनामनेकलिङ्गानां पटवादीनां गुणवचनत्वात् सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रिया वृत्तौ कार्य प्रवर्तत इति, नहि तत्र द्वितीयं स्त्रीग्रहणमस्ति। ननु आधी-प्रधीशब्दौ क्रियाशब्दत्वात् सर्वलिङ्गत्वाद् ग्रामण्यादिशब्दवन नित्यस्त्रीविषयाविति चिन्त्यमेतदिति , प्रथमग्रहणं च कर्तव्यम्, तथाहि-यः शब्दः प्रथमं स्त्रीत्वविशिष्टमर्थमाह पश्चात् प्रकारान्तरेणार्थान्तरं लिङ्गान्तरयुक्तं तस्य तदानीमस्त्र्यर्थत्वात् ततो न प्राप्नोतीतीदं वचनं विधेयम्, प्रयोजनं च क्किप्लुगभेदोपचार-समासाः, विप्लुक् यथा-कुमार्य ब्राह्मणाय, अभेदोपचारो यथा-खरकुट्यै ब्राह्मणाय, यद्यप्यत्र स्वाभाविकं स्त्रीत्वमस्ति तथापि स्वाश्रयस्य स्त्रीत्वस्य निवर्तनानायं स्त्रियामेव वर्तते किन्तु पुंस्यपीति, समासो यथा-अतितन्त्र्यै ब्राह्मणायेत्यादि; न विधेयम्-अवयवस्त्रीविषयत्वेन सिद्धत्वात्, तत्र ह्यन्तरङ्गत्वात् पूर्वमेव प्रवृत्तं स्त्रीत्वमवयवस्य पश्चादुपजायमानेन लिङ्गान्तरसम्बन्धेन न निवर्त्यते; यद्येवम् आमलकाय, अतिकुरवे, अतिकुमारये' अत्रापि प्राप्नोति, अवयवस्य पूर्वं स्त्रीवृत्तित्वात्, तथाहि-आमलकीशब्दात् षष्ठ्यन्तात् आमलक्याः फलं विकारोऽवयवो वेति “दोरप्राणिनः” (६.२.४९) इति मयट, तस्य “फले०" (६.२.५८) इति लुप्, ततो “ड्यादेगौण" (२.४.९५) इत्यादिना ङीलुक्, ततश्चतुर्थी, आमलक्याः फलायेति तु प्रक्रिया दर्शितेति, अत्रामलकीलक्षणस्यर्थोऽस्ति; तथा कुरूमतिक्रान्ताय, कुमारीमतिक्रान्ताय, इति प्रादिसमासे “गोश्चान्ते०" (२.४.९६) इति ह्रस्वत्वं ततश्चतुर्थी, अत्रापि पूर्वस्त्र्यर्थोऽस्ति, अथोच्यते-सत्यपि स्त्र्यर्थत्वे ईकारोकारान्तत्वाभावान भवतीति। तत्र लुक्-हस्व-स्थानिवद्भाव-ईदूदन्तता भविष्यत्यत आह-अत्रेत्यादि ।।२९।।
ल.न्यास-स्त्रीदूत इति। (ग्रामण्ये) स्त्रिय इति-ग्रामण्यादिशब्दो हि क्रियाशब्दत्वात् त्रिलिङ्गत्वात् नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः। आमलक्या इति-आमलकाद् उणादिप्रत्ययान्तात् ड्याम् आमलकी वृक्षवाची ध्वनिः, यद्वा आमलकस्य फलस्य विकारो वृक्षः, दुसंज्ञकस्य मयटो यदा बाहुलकाल्लुप् गौरादित्वाद् डोः, तदापि आमलकीशब्दस्तरुवाची। वर्णविधित्वेनेति-ईकारोकारो वर्णी तदाश्रिता दायादयः ।।२९।।
वेयुवोऽस्त्रियाः ।१।४।३०।। बृन्यास-वेयुव इत्यादि। इयुवः इय् च उव् च इयुत्, ततो ङस्, तत्र स्त्रीदूत इति प्रकृतस्य इयुवरूपतानुपपत्तेरियुव इति षष्ठी स्त्रीदूत इति पञ्चम्या भेदेनाभिसम्बध्यत इत्याह-इयुवोः सम्बन्धिनो यो स्त्रीदूतौ तदन्तादिति। पूर्वेण नित्यं देप्रभृत्यादेशः * चिन्ताबीजं तु आध्यायतीति विग्रहे क्विपि सति ग्रामण्यादिशब्दवनित्यस्त्रीविषयाभावः; परन्तु आ-इषत्
प्रकृष्टा वा धीर्यस्या इति विग्रहे सुतरां तयोनित्यस्त्रीवीषयत्वमिति विषमो दृष्टान्तोपन्यासः।
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564