Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 485
________________ ૪૨૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન अतत्सम्बन्धिन्युदाहरति-कर्तारमतिक्रान्तः "प्रात्यवपरि०" (३.१.४७) इत्यादिना तत्पुरुषेऽतिकर्तारम्, इत्यादि, अतिक्रान्तः कर्ता येनेति बहुव्रीहिर्न विधेयः, “ऋनित्यदितः" (७.३.१७१) इति कच्प्रसङ्गात्, तेन च व्यवधानात् प्राप्त्यभावात्। (कर्ता) कर्तृशब्दात् सावुभयं प्राप्नोति-अनेनारादेशः, "ऋदुशन०" (१.४.४) इति डादेशश्च, सावकाशं च तदुभयम्-कर्तारौ, पिता इति, अत्रोभयप्राप्ती परत्वाद् डादेशो भवति, नाऽऽर्, बाधितत्वादिति। अथ नवादयः किं पृथगुपादीयन्ते? तत्र तृ इत्येव सिद्धमित्यत आह-तृशब्दस्येत्यादि-अयमर्थः-तृशब्दस्य ऋकारान्तत्वाव्यभिचारात् पुनर्ऋकार इति यद् विशेषणं तहकारान्त एव य इति स्वरूपप्रतिपत्त्यर्थम्, यस्त्वधिकारापन्नः स स्थानिप्रत्यासत्त्यर्थोऽन्यथाऽनैकवर्णत्वात् सर्वस्य स्यात्, व्याकरणे च शब्दरूपवदर्थोऽप्याश्रीयते, अन्यथा च नवादिग्रहणमनर्थकं स्यात, तेन * अर्थवतो ग्रहणे सम्भवति अनर्थकस्य ग्रहणं न भवति * स चार्थवान् प्रत्यय एवेति, यत्र त्वर्थो न सम्भवति तत्र वचनप्रामाण्यादनर्थकस्यापि ग्रहणं भवति, अत एव नत्रादीनामव्युत्पन्नानां प्रत्यस्तमितावयवार्थानां संज्ञाशब्दानां सम्बन्धिनस्तृशब्दस्य तृग्रहणेनानर्थकत्वाद् ग्रहणं न भवतीति तेषां पृथगुपादानं क्रियते। ननु नत्रादयोऽपि व्युत्पाद्यन्ते तत् कथमुच्यतेऽव्युत्पन्नानामिति? अत्रोच्यते-उणादिषु दर्शनद्वयं केचिन्मन्यन्ते-"उणादयोऽव्युत्पन्नानि नामानि" इति, अपरे-"व्युत्पन्नानि” इति, लक्ष्यसिद्ध्यर्थं चेह क्वचित् किञ्चिद् दर्शनमाश्रीयते, तत्र यदा व्युत्पत्तिपक्ष आश्रीयते तदा नियमार्थं ननादिग्रहणमौणादिकानां संज्ञाशब्दानां नवादीनामेव न पित्रादीनामित्याह-व्युत्पत्तिपक्षे त्वित्यादि। केचित् त्विात-प्रपूर्वात् स्तोतेरुत्पूर्वान्नयतेर्गायतेश्च प्रतिपूर्वाद् हरतेस्तिष्ठतेश्च "हु-पूद्गोन्नीप्रस्तुप्रतिह-प्रति(प्र)स्थाभ्य ऋत्विजि" (उणा० ८६३) इति तृप्रत्यये घुट्यारादेशं मन्यन्ते। ताच्छीलिकतृनन्तत्वादेषामारादेशसिद्धिः ।।३८।। ल.न्यास-तृ-स्वस्त्रित्यादि-सूत्रत्वाद् “अनामस्वरे०" (१.४.६४) इति न, सूत्रे ऋकारोपादानाद् वा, कथमिति चेत् ? प्रशास्तृणाम् ऋः प्रशास्तृः तस्य। अतिकर्तारमिाते-अत्र तत्पुरुषो न बहुव्रीहिः कच्प्रसङ्गात्, तेन च व्यवधानेन प्राप्त्यभावात्। नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् ? "स्वराच्छौ” (१.४.६५) इति नागमेन व्यवधानान प्राप्नोतीति चेत्, न-नागमः प्रकृतेरेवांश इति, सत्यम्-अवयवेनावयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम्। सुष्ठु अस्यति-क्षिपति भ्रातुरमाङ्गल्यमिति-स्वसा “सोरसेः" (उणा० ८५३), नमति पूर्वजेभ्य इति नप्ता “नमेः प्च" (उणा० ८६२), नयति प्राप्नोति वेदशाखाम् इति-नेष्ठा 'नियः षादि:" (ऊणा० ८६४) तृप्रत्ययः, "त्विषो दीप्तौ" त्वेषते दीप्तो भवति स्वर्गनिर्माणनैपुणेनेति-त्वष्टा, “क्षद खदने" इति सौत्रः, क्षत्ता “त्वष्ट्र-क्षत्तु-दुहित्रादयः" (उणा० ८६५) इत्यनेन निपातः । जुहोति व्रीह्यादिकान्, पुनाति आत्मानं वेदपाठेन "हु-पूद्गोत्री-प्रस्तु०" (उणा० ८६३) इत्यादिना-होता, पोता, प्रशास्ति दिशति शास्त्राणि इतिप्रशास्ता “शासिशंसि-नी०" (उणा० ८५७) इत्यादिना तृप्रत्ययः। जायत इति जा पुत्री “क्वचित्" (५.१.१७१) इति डः प्रत्ययः, जां मिनोति जाया मिगस्तृप्रत्ययः "मिग्मीग:०" (४.२.८) इत्याकारः, केचित् त्विति-भोजप्रभृतयः ।।३८ ।। अझै च ।१।४।३९।। बृन्यास-अझै चेति-अत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयतीत्याह-डो घुटि चेति। नपुंसके ऋकारान्तस्य ङौ नित्यत्वात् श्यादेशे च पितरि वारिणेत्यादावुभयोः सावकाशत्वेन परत्वानागमे ऋकारान्तत्वाभावान भवतीत्याह-कर्तृणीत्यादि ।।३९ ।। ल.न्यास-अर्डा चेति। डो घुटि चोत-अत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति। कर्तृणि कुले इति-पितरि, वारिणीत्यादावुभयोः सावकाशत्वेन परत्वान्नागमे ऋकारान्तत्वाभावान्न भवतीति ।।३९ ।।

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564