Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 483
________________ ૪૨૪ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ल.न्यास-एदोद्ध्यामित्यादि। एदोयामिात-अत्र तकारः स्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः-परमेरिति"आतो नेन्द्रवरुणस्य" (७.४.२९) इति ज्ञापकात् पूर्वं पूर्वोत्तरपदयोः कार्यम्, ततः सन्धिकार्यम्, अत: परमैरिति प्राप्नोति, नैवम्-*ज्ञापकज्ञापिता विधयो ह्यनित्या* इति ।।३५ ।। खि-ति-खी-तीय उर् ।१।४।३६।। बृन्यास-खि-तीत्यादि। खि-ति-खी-त्यां यो यकार इति द्वन्द्वगर्भतत्पुरुषात् पञ्चम्या रूपम्-खि-ति-खी-तीय इति। एतेभ्यः परस्य यकारस्य ङसि-ङसोः परतोऽसम्भवाद् “इवर्णादे०" (१.२.२१) इति विहितस्यैव यकारस्य ग्रहणमित्याह-खि-तिखी-तीसम्बन्धिन इवर्णस्थानादिति। न च सखायं यातीत्यप्रयोगिणि (विज्ञप्रभृतौ) प्रत्यये कृते “लुगातोऽनापः" (२.१.१०७) इत्याकारलोपे सम्भवतीति वाच्यम्, प्रयुक्तानामन्वाख्यानात् तेषां च प्रयोगासम्भवात् तदभावः, खी-तीभ्यां तु कल्पनानिर्मितस्यासम्भव एव। यद्येवं लाघवार्थं ख्य-त्य उर्' इत्येवं किं न कृतम्? एवं च सति खिशब्द-खीशब्दयोस्तिशब्द-तीशब्दयोः लघुस्पष्टप्रतिपत्तिर्भवति, नैवम्-एवं सति सुतरां सन्देहः स्यात्, तथाहि-मुख्य-सख्य-गार्हपत्य-पौरोहित्य-सत्या-ऽपत्यादीनां यो ख्य-त्यशब्दो तयोर्ग्रहणं कस्मान विज्ञायते? "सख्युरितोऽशावैत्" (१.४.८३) “पत्युनः" (२.४.४८) इति ज्ञापकान भविष्यतीति चेत्? सौत्रावेतो निर्देशाविति मन्दधीर्मन्यते, गरीयांसश्च ज्ञापकोपन्यासः। खीशब्दस्तीशब्दश्च द्विविधः-कौचित् खितिशब्दयोरीकारे कृते, कौचित् ख-तशब्दयोः, तत्र पूर्वयोः *एकदेशविकृतमनन्यवद् इति खि-तिग्रहणेनैव ग्रहणात्, तत्र खी-ती-ग्रहणं नार्थवत्, किं तर्हि उत्तरयोरत आह-सह खेन वर्तत इत्यादि। खनेः “क्वचित्" (५.१.१७१) इति डे खम्, सह खेन वर्तते "सहस्य सोऽन्यार्थे" (३.२.१४३) इति सभावे तमिच्छति “अमाव्ययात् क्यन् च" (३.४.२३) इति क्यनि “क्यनि" (४.३.११२) इति ईत्वे, अन्यत्र “दीर्घश्श्वियङ्" (४.३.१०८) इति दीर्घत्वे क्विपि “अतः" (४.३.८२) इत्याकारलोपे “य्वोः प्वयव्यञ्जने लुक्" (४.४.१२१) इति यलोपे सखी, एवम्-पती, "योऽनेकस्वरस्य" (२.१.५६) इति यत्वेऽनेन उत्वे सख्युः, पत्युः, षष्ठ्यां पञ्चम्यां च साधारणं रूपम्। तथेत्यादि-सखिपतिशब्दयोरेव केचिदिच्छन्ति, यद् रत्नमति:-'सख्युः, पत्युः' इत्येतावन्मात्रमेवास्य सूत्रस्य लक्ष्यम्, न चूर्णिकारोपवर्णितमपि लुन्युरित्यादि लक्ष्यान्तरम् ; तथाऽन्येनाप्युक्तम्-क्रीत प्रीत-श्रीत-पूतादीनां क्यनादिषु तीशब्दः श्रूयमाण एव सम्भवति, तस्मात् तु कृतयादेशाद् उत्वं कस्मादुदाहतम्? क्रीत्युरागच्छति, क्रीत्युः स्वमिति, केचिदाहुः-तत्र नेष्यते त्यादुत्तरस्योर्ध्वम्, क्रीत्य आगच्छति, क्रीत्यः स्वमिति हि तत्र भवितव्यम्; अन्ये त्वाहुः-पूर्वागमेषु तीशब्दस्य लूनीशब्दावयवस्य कृतयत्वादेशस्योदाहरणं दर्शितम्, न च सामान्येन सूत्रनिर्देशे विशेषाभ्युपगमो युक्त इति सर्वमुदाहरणम्, एतद् वैमत्यं चेतसि परिभाव्य 'तथा' इत्यनेनाभ्युपगमं दर्शयति; “सुख दुःखण् तत्क्रियायाम्" णिच्यणि(चि) च सुखम्, सनोतेः क्ते “आः खनि-सनि-जनः" (४.२.६०) इत्यात्वे सातम्, लुनातेः पुनातेश्च क्ते "ऋल्वादे:०" (४.२.६८) इति "पूदिव्यञ्चे०" (४.२.७२) इति च क्तस्य नत्वे लूनः, पूनः, शेषं क्यन्नादि पूर्ववत्। पूजितः सखा अधिक: पति: "पूजा-स्वतेः प्राक् टाद्" (७.३.७२) इति समासान्ताभावे ङसि-ङसो: “ङित्यदिति” (१.४.२३) इत्येत्वे "एदोद्भ्यां ङसि-ङसो रः" (१.४.३५) इति रत्वे विसष्टे (अतिसखेः, अधिपते:) उर्वं कस्मान भवन्त्यन्त तत्र भवो दिगादिदेहांशाद्य इति येऽवर्णवर्णस्येत्यन्त्यलोमेव भवति (?)' (मुख्यः, अपत्यः आगत: स्वं वेति-)“मह पूजायाम्" अतः “महेरुञ्चास्य वा” (उणा० ८९) इति खप्रत्ययेऽन्तलोपेऽस्योत्वे मुखम्, तत्र भव: “दिगादि-देहांशाद् यः" (६.३.१२४) इति ये “अवर्णवर्णस्य०" (१.२.६) इत्यन्तलोपे मुख्यः, न पतन्तीति “नो हलिपतेः" (उणा० ३५८) इति येऽपत्यम्, ततो णिचि विचि ङसौ च मुख्यः, अपत्यः, अस्ति पत्र यकारः, खि-ति-खी-तीसम्बन्धी तु न भवति, तदभावादु|भावः। आगतमिति पञ्चम्यभिव्यक्त्यर्थम्, स्वमिति षष्ठ्यभिव्यक्त्यर्थम्, एवमन्यत्रापि। (सख्या:, पत्याः) “नारी सखी पङ्गे श्वश्रू" (२.४.७६) इति ड्यन्तात् सखीशब्दात् पतिशब्दाच “स्त्रीदूतः" (१.४.२९) इति “स्त्रिया ङितां वा." * ला.सू. सम्पादितपुस्तके 'कस्मात्रोदाहृतम्?' इति पाठोऽस्ति।

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564