________________
परिशिष्ट २
૪૦૫
मैसोऽपीति वाच्यम्, सम्भवति मुख्ये गुणकल्पनाया अयोगादिति । परत्वात् पूर्वमेत्वमित्यपि न वाच्यम्, उभयोरन्यत्र सावकाशत्वेनैकत्र युगपत्प्रवृत्तौ स्पर्द्धसम्भवे परत्वसम्भवादिति, न चात्रैसोऽन्यत्र सावकाशत्वमस्ति, अतोऽपवादत्वेनैत्वस्यैव बाधकः । इह कश्चिदविमृश्यकारी एत्वैस्त्वयोरुत्सर्गापवादभावमपह्नुत्य परत्वादेत्वप्रवृत्तिं नोदयन् भूतपूर्वगत्या नित्यत्वमैस्त्वस्याचक्षाणत्वस्य चायं (?) ( एत्वस्य चायं बाधक इति) प्रतिपादयति, यदाह
“एत्वं *भिसि परत्वाच्चेदत ऐस्त्वं कथं भवेत् ? । कृतेऽप्येत्वे भौतपूर्वान्नित्यमैस्त्वं तथा सति" ।।
जणं जरा "षितोऽङ्” (५.३.१०७) इत्यङि “ऋवर्णदृशोऽङि" (४.३.७) इति गुणे आपि च तामतिक्रान्तैः "प्राऽत्यव-परि०" (३.१.४७) इति समासे "गोश्चान्ते० " (२.४.९६) इति हस्वत्वेऽनेन भिस ऐसादेशे “ऐदौद्०" (१.२.१२) इत्येत्वे अतिजरैरिति । यद्येवमेसादेश एवास्तु किमैस्करणेन ? "ऐदोद्०" (१.२.१२) इत्येत्वे रूपस्य सिद्धत्वात्, उच्यते- ऐस्करणं स्वरूपलाभार्थम्, स्वरूपलाभस्तु ऐत्वाभाव एव, ऐत्वाभावस्तु जरसादेश एव, जरसादेशस्तु सन्निपातलक्षणानित्यत्व एवेत्याह-एसादेशेनैवेत्यादि-एकदेशविकृतस्यानन्यत्वात् कृतहस्वोऽपि जराशब्द एवेति "जराया जरस् वा” (२.१.३.) इति जरसादेशेऽतिजरसैः, अन्यथा कृतह्रस्वं जराशब्दान्तं नाम समाश्रित्यैस्भावः प्रवृत्तः कथं तद्विघातस्य निमित्तं स्यात् ? न चेन्निमित्तं स्वरादावुच्यमानो जरसादेशो न प्राप्नोति, विभक्तेः स्वरादित्वाभावादित्यर्थः । अन्ये त्विति - श्रीशेषराजः, एत्वैत्वयोर्द्विमात्रत्वाविशेषादिति भावः । अत इत्यनुवर्तनाद् मुनिभिरित्यादौ ऐसादेशो न भवतीत्याह - अत इत्येवेत्यादि । चैत्रभिस्सा, ओदनभिस्सटेति- "प्सांक् भक्षणे" अतोऽभिपूर्वाद् “उपसर्गादातः” (५.३.११०) इत्यङि पृषोदरादित्वादभेरकारलोपे पस्य सकारें आपि एकत्र टागमे भिस्सा, भिस्सटा, चैत्रस्य भिस्सा ओदनः - चैत्रभिस्सा, ओदनस्य भिस्सटा दग्धिका - ओदनभिस्सटा, अत्र स्याद्यधिकारान्नायं भिस् स्यादिरिति ऐस् न भवति । ननु विनापि स्याद्यधिकारम्, *अर्थवद्ग्रहणे नानर्थकस्य इति न्यायाद् भिस्सा-भिस्सटाशब्दयोरेकदेशस्य भिसोऽनर्थकत्वादैस् न भविष्यति, सत्यम्-अविच्छेदार्थं स्याद्यधिकारः, स चेहानुवर्तमानः अर्थवद्ग्रहणे नानर्थकस्य इत्येतन्यायानपेक्षं विशिष्टस्यैव भिस ऐसादेशं नियमयतीत्येतदर्थं नायमपेक्षणीय इति, अपेक्ष्यमाणश्च न्यायो गौरवमादधाति, अनित्यश्चेति ।।२।।
*
ल. न्यास - भिस ऐसिति । एसादेशेनैवेति- एसादेशे कृते "लुगस्या०" (२.१.११३) इति तु न वाच्यम्, विधानसामर्थ्यात्, अन्यथा यदि देवेरित्यभीष्टं स्यात् तदा इसिति कुर्यात् । अतिजरसैरिति एकदेशविकृतस्यानन्यत्वात् कृतहस्वोऽपि जराशब्द एवेति । भिस्सटेति- "प्सांक् भक्षणे" इत्यस्याभिपूर्वस्याभिप्सायते इति “उपसर्गादातः” (५.३.११०) इति अङि पृषोदरादित्वादभेरकारलोपे पकारस्य राकारे आणि लक्ष्यानुरोधाद् विकल्पेन टागमे भिस्सा, भिरसटा ।।२।।
इदमदसोऽक्येव । १।४।३ ॥
बृ०न्यास -- इदमित्यादि । इदमदस इति समाहारद्वन्द्वाद् ङस् । इमकैः, अमुकेरिति इदम्, अदस्' आभ्यां भिसि "आ द्वेरः" (२.१.४१) इत्यत्वे “लुगस्यादेत्यपदे” (२.१.११३) इत्यकारलोपे “त्यादिसर्वादेः०" (७.३.२९) इत्यकि "दो मः स्यादौ " (२.१.३९) इति "मोऽवर्णस्य " (२.१.४५ ) इति च दस्य मत्वे "मादुवर्णोऽनु" (२.१.४७) इत्युत्वेऽनेन भिस ऐस्त्वे " ऐदौत्" (१.२.१२) इत्यैकारः । एभि:, अमीभिरिति इदमः "अनक्" (२.१.३६) इत्यत्वे " एद् बहुस्भोसि" (१.४.४) इत्येत्वम्, अदसः
14
'आ द्वेरः" (२.१.४१) इत्यत्वे दस्य मत्वे पूर्ववदेत्वे "बहुष्वेरीः " (२.१.४९) इतीत्वम्, अकीति वचनादनयोरकारात् परस्य भिस ऐसादेशो न भवति । अथ किमर्थमिदम् ? यावताऽनयोरन्त्यात् स्वरात् पूर्वमको विधानादकारात् परो भिसिति पूर्वेणैव ऐसादेशो भविष्यति,
* ला. सू. सम्पादितपुस्तके 'भ्यसि' इति पाठो वर्तते, परं सोऽसमीचीनः प्रतिभाति, पश्यत महाभाष्यम् ।