________________
४०६
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति न्यायादवधार
सत्यम्-नियमार्थमिदम्, अन्यथा एभिरित्यादावपि पूर्वेण स्यादित्याह - पूर्वेणेत्यादि । ननु सिद्धे सत्यारम्भः० णस्य लब्धत्वात् तदर्थ एवकारोऽनर्थक इत्याह-एवकारस्त्वित्यादि - अयमर्थः - अकीत्यत्रैवकारमन्तरेण इदमदस एवेत्यपि नियमः स्यात् स चानिष्ट इति ।। ३ ।।
ल.न्यास-इदमदस इत्यादि । इष्टावधारणार्थ इति तेन प्रत्ययनियमो न भवति, तदभावे च तकैः विश्वकैरित्यादि सिद्धम् ।।३।।
एद् बहुस्भोसि । १ । ४ । ४ ।
बृ०न्यास- एद् बह्नित्यादि। (बहुभोसीति - ) सश्च भश्चेत्यकारेणोच्चारणार्थेन द्वन्द्वं कृत्वा ततो बहुशब्देन बहुत्वार्थेन सप्तमीतत्पुरुषं च पुनरोस्शब्देन समाहारद्वन्द्वात् सप्तमी, तत्र च "सप्तम्या आदिः " ( ७.४.११४ ) इत्यादौ संप्रत्यय इत्याहसकारादावित्यादि । एषु (एषाम्), इदम्शब्दात् सप्तमीबहुवचने (षष्ठीबहुवचने) च एकत्र नामपवादसामादेशे “अनक्” (२.१.३६) इत्यदादेशे "एद् बहुस्भोसि" (१.४.४) इत्येत्वे "नाम्यन्तस्था०" (२.३.१५) इति षत्वम् । अमीषामिति - अदशब्दादामि अत्वादौ सामादेशेऽनेनैत्वे षत्वम्, एवम् सर्वेषामित्यादि । श्रमणशब्दात् षष्ठीसप्तम्योर्द्विवचने एत्वेऽयादेशे च श्रमणयोः । वृक्षशब्दात् “टाङसो०" (१.४.५) इति ङसः स्यादेशे वृक्षस्य एवम् भ्यामि " अत आ०" (१.४.१) इत्याकारे वृक्षाभ्याम्, अनयोर्बह्वर्थविषयसकाराद्यभावादेत्वाभाव इति । सर्वशब्दात् "जस इ: ” (१.४.९) इति जस इकारादेशे “ अवर्णस्ये० " (१.२.६) इत्येत्वे सर्वे । अत इत्यधिकारात् साधुष्वित्यादौ बह्वर्थविषयसकारादावप्येत्वं न भवत्यत आह- अत इत्यादि || ४ ||
टाङसोरिन - स्यौ |१।४।५।।
बृ०न्यास–टा-ङसोरित्यादि । वृक्षशब्दात् टायामनेन इनादेशे एत्वे णत्वे च वृक्षेण, एवम्-अतिजरेण। ङसः स्यादेशे वृक्षस्य, अतिजरस्य। अत इत्येवेति- अतिजरशब्दात् टा - ङसोरिन्-स्यौ कुतो न भवत इत्याह- अत्र परत्वादित्यादि - अयमर्थः 'वृक्षेण वृक्षस्य, जरसौ' इत्यादौ द्वयोरपि चरितार्थत्वाद्, एकत्र च युगपत् प्राप्त्या स्पर्द्धसम्भवात् परत्वात् कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च प्रागेव जरसादेशे कृतेऽकारान्तत्वाभावादिनाद्यादेशाभाव इति । अन्ये त्विति-आचार्यपाणिनिसूत्रानुसारिणः, यदाह स्थविर: – यदि हि 'अतिजरसिना' इत्येतत् सूत्रकारस्य * नाभिमतं स्यात् तदा 'टा' इत्येतस्य तकारादेशमेव कुर्यात्, तत्रापि ह्येत्वे कृ वृक्षेणेत्यादि सिध्यत्येव, कथमेत्वमिति चेद् "एद् बहुस्भोसि" (१.४.४) इत्यत्र टावचनप्रक्षेपात् अत्र जयादित्यः - यथा तु भाष्यं तथा नैतल्लक्ष्यत इति ॥५॥
1
ल. न्यास - टा - ङसोरित्यादि । अन्ये त्विति यदि हि 'अतिजरसिना' इत्येतत् सूत्रकारस्य "नाभिमतं स्यात् तदा 'टा' इत्येतस्य नकारादेशत्वमेव कुर्यात्, तत्रापि ह्येत्वे कृते वृक्षेणेत्यादि सिद्ध्यत्येव, कथमेत्वमिति चेत् ? " एद् बहुस्भोसि" (१.४.४) इत्यत्र टावचनप्रक्षेपात्, अत्र जयादित्यः - यथा तु भाष्यं तथा नैतल्लक्ष्यते ।।५।।
ङ - ङस्योर्यातौ । १।४।६ ॥
बृ०न्यास – ङे-ङस्योरित्यादि । वृक्षशब्दादनेन ङे ङस्यो: स्थाने यादेशे (आदादेशे) च " अत आः स्यादो० " (१.४.१) इत्यात्वे “समानानां०” (१.२.१) इति दीर्घत्वे च वृक्षाय, वृक्षात्, एवम्-अतिजराय, तिजरात् जरसादेशस्य विकल्पितत्वात् तदभावादकारान्तत्वादत्र ङे ङस्योर्या ऽऽतौ भवतः । अत इत्येवेति- अतिजरशब्दाद् ङे-ङस्योः स्वरादित्वे परत्वान्नित्यत्वाच्च प्रागेव * ला.सू. सम्पादितपुस्तके 'साधुत्वेनाभिमतं स्यात्' इत्येतादृशः पाठोऽस्ति ।