________________
परिशिष्ट-२
४०७
जरसादेशेऽकारान्तत्वाभावादादेशाभाव इति। अन्ये तु आकारकरणसामर्थ्यात् प्रागेव जरसादेशात् ङसेरादादेशे स्वरादित्वाज्जरसादेशे च अतिजरसादिति मन्यन्ते, अन्यथाऽकारोपदेशमेव कुर्यात्, तत्रापि ह्यकारकरणाद् “रागाट्टो रक्ते" (६.२.१) इत्यादिज्ञापकाञ्च "लुगस्यादेत्यपदे" (२.१.११३) इति बाधित्वा समानदीर्घत्वे 'वृक्षाद्' इत्यादि सिध्यत्येवेत्याह-केचित् त्वित्यादि-पाणिनिसूत्रानुसारिण इति ।।६।।
ल.न्यास-डे-ङस्योरित्यादि। नन्वत्र ‘अत्' इत्येव क्रियताम्, किं दीर्घकरणेन? न चैवं कृते "लुगस्या०" (२.१.११३) इति प्राप्स्यतीति, तदा हि 'त्' इत्येवं कुर्यात्, सत्यम्- मतान्तरेऽतिजरसादित्यपि मन्यन्ते, तत्सिद्ध्यर्थं दीर्घकरणम्, दीर्घकरणाञ्च स्वमतेऽपि सम्मतमिति बोध्यम् ।।६।।
सर्वादः स्मै-स्मातौ ।१।४।७।। बृन्यास-सर्वादेरित्यादि। सर्वशब्द आदिर्यस्य स सर्वादिरिति बहुव्रीहिः, ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात् सर्वशब्दाद् यदन्यत् तस्यैव सर्वादिकार्यं स्याद्, न सर्वशब्दस्य, यथा-चित्रगुरानीयतामित्युक्ते स्वामिन एवानयनम्, न तु गवाम्, यथा चित्रा गावो यस्येति गवां विशेष्यत्वं तद्वतश्च विशेषणत्वमवगम्यते, तथेहाप्यवगंस्यते, परमत्रार्थे बहुव्रीहिर्नेष्यते, यदा हि स्वामिनः प्राधान्यं गवां विशेषणभावस्तदा बहुव्रीहिरत एव चित्रा गावो यस्य स चित्रगुरिति गवामप्राधान्यं प्रदर्श्यते, तस्मात् सर्वशब्दसङ्ग्रहार्थं बहुव्रीहितत्पुरुषयोरेकशेष आवृत्तिर्वाऽऽश्रयितव्या, तत्र सारूप्यार्थं सर्वश्चासावादिश्च सर्वादिरित्यादिशब्द उपादीयते, न त्वस्य प्रयोजनान्तरमस्ति, एकशेषे च सौत्रिकमेकवचनं भविष्यति, नैष दोषः-संयोग-समवायलक्षणसम्बन्धे यदा बहुव्रीहिस्तदा तद्गुणसंविज्ञानं भवतिशुक्लवासाः, लम्बकर्ण इति, अत्र हि दण्डी विषाणी वाऽऽनीयतामित्यादिवत् संयोगसमवायलक्षणेन सम्बन्धेन सम्बन्धिनि कार्य विज्ञायमाने उपलक्षणस्याप्यन्तर्भावो भवति, सम्वन्धान्तरे तु बहुव्रीहौ तद्गुणसंविज्ञानाभावश्चित्रगुरानीयतामिति, अत्र हि स्व-स्वामिभावसम्बन्धः षष्ठ्यर्थ इति स्वविशेषोपलक्षितस्य स्वामिन एवाऽऽनयनं भवति, न तु गवाम्, सर्वादेरित्यत्र चाऽऽदिशब्दस्यावयववाचित्वात् समवायसम्बन्धादुद्भूतावयवभेदः समुदायस्तद्गुणसंविज्ञानस्य बहुव्रीहेरर्थः, तस्य च समुदायस्य युगपलक्ष्ये प्रयोगाभावात् तदन्तर्भूतानामेव पृथग्-योगात् कार्येण भामिति सर्वशब्दस्यापि तत् सिध्यति, यथा-'देवदत्तशालाया ब्राह्मण आनीयताम्' इत्युक्ते देवदत्तोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एवेति निष्प्रयोजने एकशेषा-ऽऽवृत्ती, यतस्तस्यान्यपदार्थस्य गुणा उपलक्षणानि तेषामपि कार्य संविज्ञानं तद्गुणसंविज्ञानम्, यत्र तु तिरोहितावयवभेद: समुदायस्तद्गुणसंविज्ञानबहुव्रीहिसमासार्थः यथा-लम्बकर्ण आनीयतामिति, तत्रोच्यतेऽवयवेन विग्रहः समुदायः समासार्थः, इह तन्न संभवतीति; अत्राऽऽदिशब्दोऽवयववाची न व्यवस्थावाचितामतिक्रामति, उत्तरावयवापेक्षयैव कश्चिदाद्यो भवितुमर्हति, तेन गणपाठव्यवस्थिता: ‘सर्व, विश्व, उभ, उभयड् इत्यादयो गृह्यन्ते। अथैवम्, 'मध्यमस्याम्, अधमस्याम्' इति न प्राप्नोति गणे पाठाभावात्, तस्मादस्तु प्रकारार्थोऽयमादिशब्दः, प्रकारार्थप्रदर्शनाया पश्चादभियुक्ता गणान् पठन्ति, यथोक्तम्-श्रेण्यादयः पठ्यन्ते, कृतादिराकृतिगण इति, कृतादयश्च निदर्शनार्थं वृत्तिकारैः पठिता इति, नैष दोषः-'गध्यमस्याम्, अधमस्याम्' इति प्रयोगस्याऽऽर्षत्वात्, प्रकारार्थत्वे च सति कृत्स्न-जगदादिशब्दा-नामपि सर्वादिकार्यप्रसङ्गात्। सर्वस्मै सर्वशब्दाञ्चतुर्येकवचनस्यानेन स्मैरादेशः। स्याद्याक्षिप्तस्य नाम्नः सर्वादिभिर्विशेषणाद् विशेषणेन च तदन्तविधेर्भावात् “न सर्वादि:" (१.४.१२) इति द्वन्द्वे निषेधाद् * नामग्रहणे न तदन्तविधिः * इत्यस्यानुपस्थानात् तदन्तं परमसर्वस्मै' इत्याधुदाहृतम्। न सर्वोऽसर्वस्ततो डे-ङस्योः स्मै-स्मादादेशे असर्वस्मै, असर्वस्माद्, एवमन्यदपि। ननूभशब्दस्य नित्यं द्विवचनविषयत्वात् सर्वादिकार्यस्य बहुत्वैकत्वविषयत्वेन तत्राभावात्, तद्वृत्तिविषये च 'उभये देवमनुष्याः, उभयो मणिः, उभयपुत्रः' इत्यभेदविषयस्योभयशब्दस्यैव प्रयोगात्, ‘उभाबाहु' इत्यादेर्द्विदण्ड्यादित्वेन साधुत्वात् सर्वादौ व्यर्थः पाठः, अगर्थस्तर्हि, अन्यथा यद्यपि अकि के च रूपार्थयोरभेदस्तथापि 'द्विवचनेऽनन्तरे श्रूयमाणे उभशब्देन साधुना भाव्यम्, न लुप्ते नापि व्यवहिते' * ला.सू. सम्पादितपुस्तके 'समुदायोऽतद्गुण' इति पाठो दृश्यते।