________________
४०८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति प्रतिज्ञानस्य बाध: स्यात्, अकः तन्मध्ये पतितत्वेन तु व्यवहितेरभावात् के पुनः सति पूर्वस्य द्विवचनस्य लुप्तत्वादपरस्य च केन व्यवधानात् 'कविषये व्यवहितद्विवचनविषय उभशब्दः साधुर्भवति' इति वक्तव्यं स्यादिति चेत् ? तदर्थोऽपि न युक्त:-कस्य स्वार्थिकत्वात् स्वार्थिकाश्च प्रत्ययाः प्रकृतेरविशिष्टार्था भवन्तीति प्रकृतिग्रहणेन ग्रहणात्, 'द्विवचनविषयत्वाद्' इत्यत्र व्यर्थाभिधानसमर्थ इत्यर्थस्य विवक्षितत्वात् द्विवचनशब्देन स्यादिप्रत्ययाग्रहणात् स्वार्थिकत्वेन चोभार्थस्याहानात्, आप्वद् वचनमन्तरेण द्विवचनपरतायाः सिद्धत्वात्, ननु यथा स्वार्थिकत्वेन परार्थानभिधानात् कप्परस्य साधुत्वमेवं त्र-तस्परस्यापि साधुत्वप्रसङ्गः, नैवम्-त्र-तसादीनां विभक्त्यर्थमात्रवचनत्वेन सर्वस्यैव भेदस्य परित्यक्तत्वादसाधुत्वमुभशब्दस्य, अत एवोच्यते पूर्वे:-'उभयोऽन्यत्र' इति, एवं तर्हि हेत्वर्थप्रयोगे "सर्वादेः सर्वाः" (२.२.११९) इति सर्वविभक्त्यर्थ इत्याह-उभशब्दस्येत्यादि। उभशब्दाद् हेतुशब्दाञ्चौकारे “ऐदौत् सन्ध्यक्षरैः” (१.२.१२) इत्यौत्वे “इदुतोऽस्त्रेरीदूत्" (१.४.२१) इत्यत्वे उभौ हेतू। नन्वन्यतर इत्यन्यशब्दो डतरप्रत्ययान्तः, ततश्चान्यतरशब्दस्य डतरग्रहणेनैव सर्वादिकार्य भविष्यति, किं पुनरस्योपादानेनेत्याह-डतरग्रहणेनैवेत्यादि-अयमर्थःडतरग्रहणेनेवान्यतरशब्दस्य डतमग्रहणेनान्यतमशब्दस्यापि सर्वादित्वं स्यादिति, तेन 'अन्यतमाय, अन्यतमं वस्त्रम्, अन्यतमे' इत्यादौ स्मै-दकार-स्मिन्नादयो न भवन्ति; अन्ये तु डतर-डतमविधावप्यन्यशब्दं नाधीयते, तेषामयं डतरार्थ एव पाठः, अन्यतरमिति त्वन्य एवायमव्युत्पन्न इत्यपरे ब्रुवन्ति, अयमन्यतरशब्दो डतरान्तो न भवति, निर्धारणे हि सः, अनिर्धारणेऽयमव्युत्पन्नः, यद्वा तरणं तरः, अन्यश्चासौ तरश्चेति अन्यस्तरोऽस्येति वा द्वयोः प्रकृष्टोऽन्य इति वाऽन्यतरः, तन्मते डतमान्तस्यापि सर्वादित्वमस्तीत्याहएक इत्यादि। तत्र यथा सर्वस्मिन्निति प्रयुक्ताः सर्वादयो दृश्यन्ते, न तथा डतरस्मिन् डतमस्मिन्निति प्रयुक्तं दृश्यते, रूपनिग्रहश्च प्रयोगाद् भवति, तत् कोऽयं शब्दो 'डतर डतम' इतीत्याह-डतर-डतमावित्यादि। न परं रूपनिग्रहहेतुः प्रयोग एव, किन्तु शास्त्रमपि, तत्र “यत्-तत्-किमन्यात्०" (७.३.५३) इति डतर-डतमौ प्रययौ विधीयेते, तयोर्यदादिभ्यो विधीयमानयोः केवलयोः प्रयोगाभावात् डतर-डतमग्रहणं तदन्तान् प्रयोजयति, एवं तर्हि स्वार्थिकत्वात् प्रकृत्यविशिष्टतया यत्-तदादिप्रकृतिद्वारकमेव सर्वादित्वं भविष्यति, किमनयोरुपादानेनेत्याह-तयोरित्यादि-यदि हि डतर-डतमयोः पाठो गणे न क्रियेत तदेतरस्वार्थिकप्रत्ययान्तस्यापि सर्वादेः सर्वतमायेत्यादावपि सर्वादिकार्य स्यात्। प्रयोजनानन्तरं चाऽऽह-अन्यादीत्यादि-डतर-डतमान्तानां “पञ्चतोऽन्यादेरनेकतरस्य दः" (१.४.५८) इत्यन्यादित्वाद् दादेशो यथा स्यादित्येवमर्थं च डतर-डतमग्रहणम्, नहि 'अन्य अन्यतर इतर डतर डतम' इत्यपाठे पञ्चतोऽन्यादेरुच्यमानो दादेशो लभ्येत, ननु च सत्यस्मिन् प्रयोजने कथं स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थं स्याज्ज्ञापकमिदम्, अन्यथाऽनुपपद्यमानं ज्ञापकं भवति, न च सत्यस्मिन् प्रयोजनेऽस्यान्यथानुपपत्तिरस्ति, न च दादेशार्थमात्रत्वे दादेशविधावेव डतरडतभ-ग्रहणं कर्तव्यम्, गणे तु करणात् स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थमपि भवतीति वाच्यम्, गणे करणमसंज्ञायामिति विशेषणार्थं स्याद्, गुरुश्च 'अन्या-ऽन्यतरेतर-डतर-डतमस्य' इति निर्देशः स्यादिति; उच्यते-यथेदं दादेशार्थमन्यादिपञ्चके भावाद् भवति तथा स्मै-स्मादाद्यर्थमपि स्यात् सर्वादित्वात्, तथाहि-यदि स्वार्थिकप्रत्ययान्तानां सर्वादित्वं स्यात् तदा स्मैस्मादादेशार्थं डतरडतमोपादानमनर्थकम्, अतः स्वार्थिकप्रत्ययान्तानां सर्वादित्वं न भवतीति तदुपादानं स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थं विज्ञायत इति, तदुदाहरति-सर्व मायेत्यादि । त्वशब्द इति अन्यशब्दस्यार्थोऽस्येत्यन्यार्थः । त्वस्मै अन्यस्मै इत्यर्थः । त्वशब्द इति अकारान्तसन्देहव्युदासार्थं त्वच्छन्द इति निर्देशः, तत्रैकमर्थं प्रति व्यादीनां तुल्यबलानामविरोधिनामनियतक्रम-योगपद्यानां भेदेन चीयमानता समुच्चयः, तस्य पर्यायस्तद्वाचक इत्यर्थः । अथास्य तकारान्तत्वात् स्मैप्रभृतिसर्वादिकार्यायोगादुपादानमनर्थकमित्याह-तस्येत्यादि। अज्ञातादिति-त्वच्छब्दस्याज्ञातार्थे "त्यादिसर्वादेः" (७.३.२९) इत्यन्त्यात् स्वरात् पूर्वमकि पञ्चम्येकवचने च त्वकतः। नेमशब्द इति-अर्धशब्दस्यार्थोऽस्येति विग्रहः। सम-सिमौ सर्वार्थाविति-सर्वशब्दः संख्याप्रकारकयावद्विषये कात्न्ये वर्तते, तत्र सङ्ख्याकारन्ये यथा-सर्वे आयाताः, यावन्तो लिखिता दश द्वादश वा ते कात्न्येनायाता इत्यर्थः, एवंविधसर्वार्थे वर्तमानौ सम-सिमशब्दौ सर्वादी इत्यर्थः । सर्वार्थत्वाभावे न भवतीत्यनेनार्थान्तरवृत्तिव्यवच्छेदफलं दर्शयति- समायेत्यादि-अविषमायेत्यर्थः। स्वाभिधेयापेक्षेत्यादि-अवधिर्मर्यादा तस्य नियमोऽऽवश्यम्भावोऽवधिभावादभ्रंशो व्यवस्थाऽपरपर्यायः, तथाहि-नात्र काचिद् व्यवस्थाऽरित, अव्यवस्था वर्तते, व्यवस्था कर्तव्येति व्यवस्थाशब्दानियमो गम्यते, स च स्वाभिधेयापेक्षः, पूर्वादीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थस्तमपेक्षते यः स स्वाभिधेयापेक्षः, चोऽवधारणे,