SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४०५ परिशिष्ट-२ दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत् पूर्वादित्वं तन्नियोगतः कञ्चनावधिमपेक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्, तथाहि-पूर्वस्य देशस्य यत् पूर्वत्वं तत् परं देशमवधिमपेक्ष्य भवति, परस्यापि यत् परत्वं तत् पूर्वं देशम्, तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम्, तत्रैतस्यैवावधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्थापरपर्यायस्तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यं न तु वाच्ये, यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्यावधिभूतस्य नियमः स कथं पूर्वादिशब्दवाच्यो भविष्यतीति, अतस्तस्मिन्नान्तरीयकतया गम्यमाने 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर' इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति। अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादीनि सर्वादीनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादिशब्दरूपापेक्षया च नपुंसकनिर्देशो नार्थापेक्षया, तेन स्त्री-पुं-नपुंसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वमिति। व्यवस्थापरपर्याय इत्यस्य व्यवच्छेद्यं दर्शयति-व्यवस्थाया इत्यादिना। दक्षिणाय प्रवीणायेत्यर्थः, अत्र हि प्रावीण्यमात्रेण निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वर्तत इति व्यवस्था न गम्यते। केचित् तु याव व्यभाविनी व्यवस्थेत्याहुः, तेषां पूर्वस्मै पुरुषायेत्यादि न भवति, नहि दिग्योगलक्षणपूर्वत्वादि पुरुषे यावद्रव्यभावीति। परस्परस्थित्यपेक्षयाऽऽत्मस्थितिर्व्यवस्थेत्येके, तेषां सर्वे विशेषण-विशेष्यशब्दाः सम्बन्धिशब्दाश्च व्यवस्थाशब्दाः स्युरिति दक्षिणाय गाथकायेत्यत्रापि प्राप्नोति। आत्माऽऽत्मीयेत्यादि-आत्मा च आत्मीयश्च ज्ञातिश्च धनं च तान्येवार्थस्तत्र वृत्तिर्यस्येति विग्रहः, मिन्प्रत्ययविषये त्वैश्वर्यवाची। स्वशब्द आत्माऽऽत्मीययोः सर्वादिरिति शेषः । यत् स्वस्मै रोचते तत् स्वस्मै ददातीत्यस्यार्थं व्याचष्टे-यदात्मन इत्यादिना। स्वाय दातुमित्यादौ तु ज्ञातिधनवृत्तित्वात् सर्वादित्वाभाव इत्यर्थः । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञाति-धने स्वरूपेणाऽऽचष्टे तत्राऽसौ संज्ञारूपेण तयोर्वर्तत इति तत्र न भवतीत्याह-ज्ञाति-धनयोरित्यादि। कथं पुनरयमों यावता 'स्वे पुत्राः' इति ज्ञात्यर्थो गम्यते, 'स्वे गावः' इति धनार्थः, नैतदस्ति-पुत्र-गोशब्दयोरिह संनिधानेनोभयं गम्यते, स्वशब्दात्त्वात्मीयत्वमात्रं प्रतीयते। ननु यदि शब्दान्तरनिरपेक्ष एव स्वशब्दो ज्ञाति-धनयोर्वर्तते, कथं तर्हि "उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ!” इत्यादौ ज्ञातिशब्दस्यानुप्रयोगः, नैष दोषः-यत्र हि शब्दोऽनेकार्थो भवति सन्दिग्धार्थो वा तत्र तदर्थस्य व्यक्तीकरणे पर्यायशब्दस्यानुप्रयोगो न विरुध्यते, यथा-मेधाद्यनेकार्थस्य वराहशब्दस्य प्रयोगे शूकरशब्दस्य, यथा च सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य, स्वशब्दश्चायमनेकार्थस्तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्त इति संदेहः स्यादतस्तनिरासार्थमुपपद्यते ज्ञातिशब्दस्यानुप्रयोगः, एवं धनशब्दस्यापि द्रष्टव्यम्। 'अन्तरं बहिर्योगोपसंत्र्यानयोः' इति वक्ष्यति, तदर्थं व्यक्तीकुर्वनुदाहरतिबहिर्भावेनेत्यादि -बहिरित्यनावृतो देशस्तस्य भावः स एव वा भावस्तेन योगः, स च बाह्यस्याबाह्यस्य च भवति, यथाअन्तरस्मै गृहाय नगरबाह्यायेत्यादि-नगरं हि चतुष्प्रतोलीयुक्तप्राकारावृतमुच्यते, यदाह-"नगरमुरुचतुर्गोपुरोद्भासिसालम्" इति, तत्र च प्राकारावृतदेशे चाण्डालादिगृहस्यानौचित्यादनावृतप्रदेशेन योगो गम्यत इति, यदा तु बहिःशब्देन बाह्य उच्यते तदा बाह्येनानावृतदेशप्रयुक्तेन चाण्डालादिगृहेन योगे आभ्यन्तरस्यानाभ्यन्तरस्य बहिर्भावेनैव सिद्धत्वादित्यर्थः, अर्थभेदेऽपि रूपस्य समानत्वात् पृथक् प्रयोगो नोक्तोऽर्थभेदस्तु दर्शितः, चाण्डालादिगृहयुक्ताय वा नगराभ्यन्तरगृहायेत्यर्थः। उपसंव्यानशब्दः कर्मसाधनो यथाउपसंवीयते यदिति “भुजिपत्यादिभ्यः कर्माऽपादाने" (५.३.१२८) इति कर्मण्यनटि, उपसंवीयतेऽनेनेति “करणाऽऽधारे" (५.३.१२९) इति करणे वाऽस्तीत्याह-उपसंव्याने उपसंवीयमाने चेति। ननु कर्मार्थकरणार्थभेदाद्भिन्नेऽपि उपसंव्यानार्थे सर्वत्र बहियोगेनैव सिद्धत्वाद् व्यर्थमेतदिति, न च यदा समप्रमाणेऽपरिहिते शाकटयुगे इदं न ज्ञायते-किमुत्तरीयं किमन्तरीयमिति तदर्थमेतद् भविष्यतीति वक्तुं शक्यम्, यतस्तत्र यथा प्रेक्षापूर्वकारी भाविबुद्ध्योपसंव्यानत्वं व्यवस्थापयति तथा बहिर्योगमपि, उच्यते-पटचतुष्टयार्थम्, तत्र शाटकानां त्रये चतुष्टये वा प्रथम-द्वितीययोर्बहियोगेनैव सिद्धत्वात् तृतीय-चतुर्थयोर्बहिर्योगाभावादुपसंव्यानग्रहणमितीत्याह-अन्तरस्मै पटायेत्यादि। पुरि तु न भवति, अपुरीति प्रतिषेधादिति शेषः, तेन अन्तराये पुरे क्रुध्यतीति-अत्र “सर्वादेर्डस्पूर्वाः" (१.४.१८) इति डस् न भवति, पूश्च कस्मिंश्चिद् देशे प्राकाराभ्यन्तरे क्रियते क्वचित् प्राकाराद् बहिरित्यस्ति बहिर्योगः । व्यादीनामनकारान्तत्वात् स्मायादेः सर्वादिकार्यस्यासम्भवेऽपि प्रयोजनान्तरमस्तीति तदाह-द्वियुष्मदित्यादि। सर्वविभक्त्यादय इति – “सर्वादेः सर्वाः" (२.२.११९) इति हेतुप्रयोगे सर्वविभक्तय इति, आदिशब्दाद् यथायोगं शेष-पूर्वनिपात-पुंवद्भाव-डद्रि-आत्-आयनिञ्-मयट-अकः प्रयोजनानि ज्ञायन्त इति। ननु सूत्रे विषयस्यानिर्देशात् संज्ञायामपि सर्वादीनां सर्वादिकार्यप्रसङ्गः, नैष दोषः-तत्र गणपाठात् पर्युदासः, शुद्धान्येव हि गणे सर्वादीनि
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy