________________
४१०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सनिविष्टानि न संज्ञाभूतानि, तेन यत् सामान्यं स्मायादिकार्य यञ्च विशिष्टं “पञ्चतोऽन्यादेरनेकतरस्य दः" (१.४.५८) "आ द्वेरः" (२.१.४१) इति तत् सर्वं गणपाठोपलक्षितानामेव, यत् तु कार्यम् “अमौ मः" (२.१.१६) इत्यादिस्वरूपमात्राश्रयं न संनिवेशापेक्षं तदविशेषेण भवति, तत्र हि न गणपठितयोः युष्मदस्मदोनिर्देशः, अपि तु औणादिकयोः, अथवा सर्वादिविशेषणार्थमसंज्ञायामिति गणे साक्षात् पठनीयमित्याह-सर्वेऽपि चामी संज्ञायां सर्वादयो न भवन्तीति। ननु संज्ञायां गौणत्वादेव न भविष्यति, सर्वाय देहीति प्रसिद्ध्यप्रसिद्धिवशात् सम्भवत्येव * गौण-मुख्य* न्याय इति किमसंज्ञायामिति विशेषणेन? नैवम्-पदकार्येष्वेवायं न्याय उपतिष्ठते, न नामकार्य इति, तथाहि-स्वार्थे वृत्तानाम्न उत्पन्नायां विभक्तौ तत्कार्ये *(षु कृतेषु) शब्दान्तरसंनिधानाद् गौणत्वं प्रतीयते, यथा-गां वाहीकमानयेति, पूर्वं क्रियासम्बन्धापेक्षया विभक्तावुत्पन्नायां * वाक्यीय * न्यायात् सामानाधिकरण्याद् गौणार्थप्रादुर्भावो भवति, तस्य तु स्वार्थस्य मुख्यव्यपदेशो नास्ति गौणापेक्षया सम्बन्धिशब्दत्वान्मुख्यव्यपदेशस्य गौणाभावेऽभावात्, न चैवं शब्दान्तरात् संज्ञाप्रतीतिरस्ति, यदि वा गुणादागतो गौणो यथा-गोशब्दस्य जाड्यादिनिमित्तोऽर्थो वाहीकः, मुखमिव मुख्यः, स्वं रूपमित्यत्र रूपग्रहणेनार्थपरिग्रहस्य ज्ञापितत्वादर्थवतः कार्येण भवितव्यम्, स चार्थः प्राधान्याद् मुख्य एव गृह्यते, गौणे ह्यर्थे शब्दः प्रवर्तमानो मुख्यार्थारोपणैव प्रवर्तते, अनियतश्च गौणार्थः, न च संज्ञाशब्दो गुणद्वारेण प्रवर्तते येन प्रसिद्ध्यप्रसिद्धिवशाद् गौणत्वं तस्य संभाव्यतेति। ननु मा भूत् सर्वो नाम कश्चित्, सर्वायेत्यादौ 'असंज्ञायाम्' इति विशेषणात् सर्वादिकार्यम्, प्रियाः सर्वे यस्य सर्वानतिक्रान्तो य (इत्यादौ) उपसर्जनस्य तु प्राप्नोतीत्याह-सर्वादेरित्यादि-अयमर्थः-षष्ठ्या यदुच्यते तद् गृह्यमाणविभक्तेर्भवति, यद्यैवं 'परमसर्वस्मै' इत्यादौ स्मायादि न प्राप्नोति, नह्यत्र गृह्यमाणात् सर्वादेविहिता विभक्तिः, अपि तु समासादिति, न-गृह्यमाणस्य सर्वादेरर्थद्वारेण सम्बन्धिनी या विभक्तिस्तदर्थगतसङ्ख्याकर्मादिवाचिनी तस्याः सर्वादिकार्यमित्यर्थोऽत्र विवक्षितः, सर्वादिसङ्ख्याप्रधानश्चैष समास इति, अथवा सर्वमादीयते गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रयणात्, सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च विशेषेऽवतिष्ठेते, तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवावतिष्ठते, उपसर्जनमपि जहत्स्वार्थमजहद् वाऽतिक्रान्तार्थविशेषणतामापन्नमतिसर्वायत्यादावतिक्रान्तार्थवृत्ति भवति, एवं बहुव्रीहावपि 'प्रियसर्वाय, व्यन्याय' इत्यादावन्यपदार्थसंक्रमाद् विशेषार्थवृत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषावस्थानमिति स्यात् सर्वादित्वम्। यद्येवं सकल-कृत्न-जगदादेरपि प्राप्नोति, एतेषामपि शब्दानामेकैकस्य यो विषयस्तस्मिंस्तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य तस्मिन् वर्तमानस्य सर्वादिकार्य प्राप्नोति, ततश्च 'सर्वस्मिन्नोदने' इत्योदनशब्दस्यापि स्मिन्नादिप्रसङ्गः सामानाधिकरण्यादनयोः, ननु प्रतिनियतभागाभिनिवेशित्वाच्छब्दानां सर्वत्वमोदनशब्देन नाभिहितमोदनत्वमपि सर्वशब्देनेति कुतोऽयं प्रसङ्गः? तत्रेदं दर्शनम्सर्वशब्दोऽप्योदनार्थावग्रहेण प्रवृत्त ओदनशब्दोऽपि सर्वार्थावग्रहेण, प्रतिपत्ता तु केवलात् सर्वादिशब्दाद् विशेषं न प्रतिपद्यते, रूपसादृश्यात्, नापि ओदनशब्दादिति तत्प्रतिपत्त्यर्थमुभयोपादानम्, तत्रैकस्य सर्वादिकार्यं भवति नापरस्येति प्रमाणाभावादतिप्रसङ्ग उद्भाव्यते, एवं तर्हि उभयमनेन क्रियते-पाठश्चैव विशेष्यते विधिश्च, कथं पुनरेकेन यत्नेनोभयं लभ्यते? तन्त्रेणाऽऽवृत्त्या वा, सर्वेषां यानि प्रतिपादनानि सर्वादीनि तेभ्यः, संज्ञोपसर्जने च विशेषेऽवतिष्ठेते, एवं च सर्वादीनां विशिष्टो धर्मोऽनुमीयते-नूनमेवामून्यन्वर्थप्रवृत्तिनिमित्तेन सर्वाभिधेयत्वेन युक्तानि सर्वादीनि, अतः सर्वादिकार्यमन्तर्गणकार्यं च सर्वाभिधेयत्वयुक्तानामेव भवति, न संज्ञोपसर्जनानामिति सिद्धम्। अथाढ्यो भूतपूर्वो मयूरव्यंसकादित्वात् समासे आढ्यपूर्वस्तस्मै आढ्यपूर्वाय देहीत्यत्र कथं सर्वादिकार्यं न भवति? न च व्यवस्थाया अभावः, पूर्वमाढ्यो न च सम्प्रतीति व्यवस्थाप्रतीतेः, उच्यते-अत्र हि पूर्वत्वमाढ्यत्वस्य विशेषणम्, यथा-अतिस(पू)येत्युपसर्जनत्वात् पूर्वार्थस्य स्मायादि न भवति। ननु अहकं पिताऽस्य मकत्पितृकः, त्वकं पिताऽस्य त्वकपितृकः, द्वको पुत्रावस्य द्वकिपुत्र इति, अन्तरङ्गत्वात् सर्वाभिधाननिमित्तेनाका तावद् भाव्यम्, पश्चात् पदान्तरसन्निधाने वृत्तिपदार्थविवक्षायां बहुव्रीहिणेत्यनुपसर्जनत्वात् प्राप्नोति, मत्कपितृकः, त्वत्कपितृकः, द्विकपुत्र इति चेष्यत इति तदर्थं बहुव्रीहेरप्रयोगसमवायि यत् प्रक्रियावाक्यं तत्र प्रतिषेधो वक्तव्यः, न तु लौकिके वाक्ये प्रयोगार्हे तस्याक्प्रयुक्तस्यैव प्रयोगात्, तन-तत्राप्यक्प्रयोगस्यैवेष्टेः, यदाह-गोनीयः
"अकच्-स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयौ। मकत्पितृकः त्वकत्पितृकः" इति। न च * अन्तरङ्गानपि विधीन बहिरङ्गो * ला.सू. सम्पादितपुस्तके 'तत्कार्ये' इत्येतावानेव पाठो दृश्यते, परं सोऽपूर्णः प्रतिभाति।