________________
परिशिष्ट-२
૪૧૧ विधिर्बाधते * इति वक्तुं शक्यम्, लुब्बिषयत्वेनैव तस्य ज्ञापितत्वात्। “सुं गतौ" अतो “लटि-खटि-सलि०" (उणा० ५०५) इति वे सर्व। विशते: “निघृसीष्यषि-उ-पुषि०" (उणा० ५११.) इति वे विश्व। "उभत् पूरणे" अतो "नाम्युपान्त्य०" (५.१.५४) इति के उभ, तत्पूर्वाद् याते: “आतो डोऽह्वा-वा-म:" (५.१.७६) इति डे निपातनाट्टित्त्वे उभयट्। अनितेः “स्था-छा-मा-सा०" (उणा० ३५७) इति येऽन्य। अन्यशब्दात् डतरेऽन्यतर। एते: “इण-पूभ्यां किद्" (उणा० ४३८) इति तरे इतर। डतर डतम इति प्रत्ययानुकरणम्। "जित्वरिष् सम्भ्रमे" अत: “क्वचित्” (५.१.१७१) इति डे त्व, अस्यैव धातो: “संश्चद्-वेहत्-साक्षादयः" (उणा०८८२.) इति निपातनात् त्वत्। नयते: “अर्तीरि-स्तु०" (उणा० ३३८.) इति मे नेम। “षम वैक्लव्ये" अतोऽचि सम। सिनोते: “सेरी च वा” (उणा० ३४३.) इति किति मे सिम। “पूर्व पूरणे" अतोऽचि पूर्व, "पृश् पालन-पूरणयोः" अतो वा “निघृषीष्य॒षिजु-पुषी०" (उणा० ५११.) इति किति वे "ओष्ठ्यादु०" (४.४.१११) इत्युरि “भ्वादे०" (२.१.६३) इति दीर्घत्वे पूर्व। पृणातेरौणादिकेऽकारे पर। “अव रक्षणादौ" अत: “अवेर्ध च वा" (उणा० ३९८.) इत्यरप्रत्यये अवर। “दक्षि शैघ्ये च" इत्यस्माद् “द्रु-ह-वृहि-दक्षिभ्य इणः” (उणा० १९४.) इतीणे दक्षिण। उत्पूर्वात् तरतेरचि औणादिकेऽकारे वा उत्तर। नयूर्वात् पृणातेरकारे अपर। अवते: “अवेधं च वा" (उणा० ३९८.) इत्यरे धादेशे च अधर। “असूच क्षेपणे" इत्यस्मात् “प्रह्वाऽऽह्वा-यह्वा-स्व०" (उणा० ५१४.) इति निपातनाद् वे स्व। “अन श्वसक् प्राणने" अतः 'अनिकाभ्यां तरः" (उणा० ४३७.) इति तरे अन्तर। "त्यजं हानौ" "तनूयी विस्तारे" “यजी देवपूजा-संगतिकरणदानेषु" इत्येभ्यः "तनि-त्यजि-यजिभ्यो डद्" (उणा० ८९५.) इति डित्यदि अन्त्यस्वरादिलोपे त्यद्, तद्, यद्। “अदंक् भक्षणे" अत: “अदेरन्ध् च वा" (उणा० ९६३.) इत्यसि अदस्। एते: “इणो दमक" (उणा० ९३८.) इति दमकि “इणस्तद्" (उणा० ८९६.) इति तदि “भीण-शलिवलि०" (उणा० २१) इति के 'इदम्' प्रत्यक्षनिर्देशे, 'एतत्' प्रत्यक्षसमीपे, 'एक' एकत्वसंख्यायाम्। उभे: "उभेर्द्व-त्रौ च" (उणा० ६१५.) इतीकारे द्वादेशे च द्वि द्वित्वे। युषेः सौत्रात् "युष्यसिभ्यां क्मद्" (उणा० ८९९) इति क्मदि युष्मद् प्रत्यक्षवचनः। “भाक् दीप्तौ" अतः 'भातेर्डवतुः' (उणा०८८६.) इति डवतौ भवतु परोक्षवचनः। अस्यते: “युष्यसिभ्यां०" (उणा०८९९) इति क्मदि अस्मद प्रत्यात्मवचनः। "कुंक् शब्दे" अत: “कोर्डिम्" (उणा० ९३९) इति डिमि किम् प्रश्ने क्षेपे च ।।७।।
ल.न्यास-सर्वादेरित्यादि। परमसर्वस्मायिति-स्याद्याक्षिप्तस्य नाम्नः सर्वादिविशेषणाद् विशेषणेन च तदन्तविधेर्भावात् “न सर्वादिः" (१.४.१२) इति द्वन्द्वे निषेधाद् वा * ग्रहणवता नाना न तदन्तविधिः * इत्यस्यानुपस्थानात् तदन्तं परमसर्वस्मै' इत्युदाहतम्, केवलस्य व्यपदेशिवद्भावात् तदन्तत्वं दृश्यम्। विश्वस्मै इति-सर्वशब्दसाहचर्या विश्वशब्दस्यापि समस्तार्थस्यैव ग्रहणम्, न तु जगदर्थस्य। स्वार्थिकप्रत्ययेति-इत्थं वदतोऽयमाशय:-स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति। सिमोऽश्वाद्यर्थोऽपि। अधराणीति-शब्दरूपापेक्षया नपंसकनिर्देशो नार्थापेक्षया. तेन स सर्वादित्वमिति। स्वाभिधेयेति-पूर्वादीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थः, तमपेक्षते यः स स्वाभिधेयापेक्षः, चोऽवधारणे, दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत् पूर्वादित्वं तद् नियमेन कञ्चिदवधिमपेक्ष्य संपद्यते, न त्ववधिनिरपेक्षम्, तथाहि-पूर्वस्य देशस्य यत् पूर्वत्वं तत् परं देशमवधिमपेक्ष्य भवति, परस्यापि यत् परत्वं तत् पूर्वदेशमपेक्ष्य भवति, तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम्, तत्र तस्यैवावधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्थापरपर्यायः, तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये, यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्यावधिभूतस्य नियमः स कथं पूर्वादिशब्दवाच्यो भविष्यति? इति, अतस्तस्मिनान्तरीयकतया गम्यमाने 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर' इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति। अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादीनि सर्बादीनि भवन्तीत्यदाहरति-पर्वस्मै इत्यादि। दक्षिणायै इति-यज्ञकर्मकतां वेतनदानं दक्षिणा। बहिर्भावनेति-धर्म बहिष्ट्र धर्मिणि च बहिर्भवे बहि शब्दः। अन्तं रातीति "आतोडोऽह्वा-वा०" (५.१.७६) इति डः। पुरि वर्तते इति-'पुरि' इति शब्दप्रधानो निर्देशः, यदा अन्तरशब्दस्य पुयञ्जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषेधः, यदा अकारान्त ईकारान्तो वा पुरं पुरी द्रङ्गादयश्च वाच्या भवन्ति, तदा सर्वादित्वमस्त्येव। द्वाभ्यामिात-"सर्वादेः सर्वाः" (२.२.११९) इत्यत्र मतद्वयाभिप्रायेण प्रथमा-द्वितीयावर्जनात् तृतीयां प्रारभ्यात्रोदाहरणानि दर्शितानि। स्वमते 'दो हेतू' इत्यादि भवत्येव। सर्वविभक्त्यादय इति-आदिशब्दाद् यथायोगमेकशेष-पूर्वनिपात-पुंवद्भाव डद्रि-आत्-आयनिञ्-मयट-अक: प्रयोजनानि ज्ञायन्त इति। अत्र सर्वमादीयते गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च विशेषेऽवतिष्ठेते तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवावतिष्ठते, उपसर्जनमपि जहत् स्वार्थमजहद् वाऽतिक्रान्तार्थविशेषणतामापत्रम् 'अतिसर्वाय' इत्यादावतिक्रान्तार्थवृत्ति भवति, एवं बहुव्रीहावपि प्रियसर्वाय व्यन्यायेत्यादावन्यपदार्थसंक्रमा विशेषार्थवृत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानमिति स्यात् सर्वादित्वम्। “उभत् पूरणे" अतो “नाम्युपान्त्य०" (५.१.५४) इति के उभ, तत्पूर्वा याते: “आतो डोऽहा वा-मः" (५.१.७६) इति डे निपातनात् टित्वे उभयट्। डतरेति-प्रत्ययानुकरणम्। त्व "जित्वरिष् संभ्रमे" अत: "क्वचित्" (५.१.१७१) इति डे, त्वत्-अस्यैव धातो: “संश्चद्-वेहत्-साक्षादादयः" (उणा० ८८२) इति निपातनात् ।।७।।