________________
૪૧૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
डे: स्मिन् ।१।४।८।। बृन्न्यास-डेरित्यादि । डेरिति स्थानसम्बन्धे षष्ठी। सम्बन्धिन इति-सर्वादेः शब्दस्वरूपस्य यः सम्बन्धी डिस्तस्येत्यर्थः, तत्सम्बन्धित्वं च तदर्थगतसंख्याद्यभिधानादर्थद्वारकं द्रष्टव्यम्। सर्वस्मिन्, विश्वस्मित्रिति-सर्व-विश्वशब्दाभ्यां डे: स्मिन्नादेशः। सर्वादेरित्येवेति-'असंज्ञायाम्' इति-विशेषणात्, अर्थविशेषे च सर्वादित्वात् संज्ञायामर्थविशेषाभावे च न सर्वादित्वमित्यर्थः। समे देश इति अविषमेऽनिम्नोन्नत इति यावत्। “तदस्यास्त्यस्मिन्०" (७.२.१) इति ज्ञापकाद् डेरिति सप्तम्येकवचनस्य परिग्रहः, तथैवात्र वाक्यार्थस्य घटनात् ।।८।।
जस इ: ।१।४।९।।
बृन्यास-जस इत्यादि। सर्वशब्दात् प्रथमाबहुवचने जस इकारादेशे “अवर्णस्य०" (१.२.६) इति एत्वे सर्वे, एवमन्यत्रापि । अथ नपुंसके सर्वशब्दाद् * नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् * जसः स्थाने इकारादेशः कस्मान्न भवति? उच्यतेपरत्वाच्छि-रेवास्य बाधक इत्याह-सर्वाणीत्यादि ।।९।।
नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा ।१।४।१०।। बृन्यास-नेमार्धेत्यादि-अत्र समाहारद्वन्द्वात् षष्ठी। नेमस्येति-सर्वादित्वात् पूर्वेण प्राप्ते इति शेषः। व्याख्यानात् तयाऽयौ प्रत्ययौ, तयोश्च केवलयोरसम्भवात् तदन्तस्य कार्यं दर्शयति-द्वितये इत्यादि-द्वि-त्रिशब्दाभ्याम् “अवयवात् तयट्" (७.१.१५१) इति तयटि “द्वि-त्रिभ्यां०" (७.१.१५२) इत्ययटि जसोऽनेन विकल्पेन इकारादेशः। उभयटशब्दस्य जस इकारादेशो विकल्पेन कस्मान भवतीत्याह-उभयडित्यादि-प्रागेव निर्णीतम्। अथ कुत्सिता अल्पा, अज्ञाता अल्पा अल्पका इत्यादिकप्रत्ययस्य स्वार्थिकत्वाद् अल्पादिसम्बन्ध्येव जसिति इभावः कस्मान भवति? उच्यते-ज्ञापितमेवैतत्-डतर-डतमग्रहणेन यदत्र प्रकरणे स्वार्थिकप्रत्ययान्तस्य ग्रहणं न भवतीति। नेमशब्दस्य सर्वादित्वात तत्रासंज्ञायामिति विशेषणादर्धादीनां च व्यवस्थितविभाषाविज्ञानात संज्ञा-स्वार्थिक इकारो न भवतीत्याह-सर्वादेरित्यादि। व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषत इति व्यवस्थितविभाषा ।।१०।।
___ ल.न्यास-नेमार्धेत्यादि । तयोते-"तयि रक्षणे च” “अयि गतौ" इत्याभ्यामचि तया-ऽयौ शब्दावपि स्तः, परं व्याख्यानात् तयायो प्रत्ययौ, तयोश्च केवलयोरसंभवात् तदन्तस्य कार्य दर्शयति-द्वितये इत्यादि। व्युत्पत्तिपक्षेऽपि तयट्साहचर्यात् अयस्य तद्धितस्य ग्रहणम्, न तु "गय-हृदय०" (उणा०३७०) इत्यौणादिकस्य। व्यवस्थितविभाषेति-व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषत इति। अर्धा नाम केचिदिति-नामेत्यदन्तमव्ययम्, नाम नाना संज्ञया, नाम प्रसिद्धार्थो वा, केचिद् वर्तन्ते, कि नाम? अधा ना
द्वन्द्वे वा ।१।४।११।। बृन्यास-द्वन्द्वे इत्यादि। पूर्वसूत्रे नेमं प्रति व्यभिचाराभावाद् विशेषणानर्थक्याद् इतरान् प्रत्यसम्भवाजसः सर्वादेरित्यनेन सम्बन्धो न दर्शितः; इह तु सम्भव-व्यभिचारयोर्भावात् प्रदर्शित इत्याह-सर्वादेः सम्बन्धिनो जस इति। (प्रियकतर-कतमाः) प्रियाः कतरकतमे कतरकतमा वा येषामिति विग्रहः। (वस्त्रान्तर-वसनान्तराः) वस्त्रमन्तरं येषां ते वस्त्रान्तराः, “राजदन्तादिषु" (३.१.१४९) दर्शनात् सर्वादिपूर्वनिपातबाधायां वस्त्रशब्दस्य पूर्वनिपातः, एवं वसनमन्तरं येषां ते वसनान्तराः, वस्त्रान्तराश्च वसनान्तराश्चेति