________________
परिशिष्ट-२
૪૧૩ सहोक्तौ बहुव्रीहेर्द्वन्द्वः, वसनशब्दो वसत्यत्रेत्यावासवचनः, यदि तु “वसिक् आच्छादने" वस्यते तत् तेन वेति तदा वसनशब्दोऽपि वस्त्रार्थ एवेति वस्त्रान्तर-वसनान्तरशब्दयोरेकशेषः स्यात्, अत्र द्वन्द्वाधिकरणत्वेऽपि वस्त्रान्तर-वसनान्तरशब्दयोः सर्वादेः सम्बन्धी न जसिति इभावो न भवति। ननु चान्तरशब्दो बहुव्रीहौ वर्तत इति कथमस्य प्रत्युदाहरणम्? न-तदवयवको बहुव्रीहिर्द्वन्द्व इति सोऽपि द्वन्द्व इति प्रत्युदाहियते। उत्तरेणेति-द्वन्द्वस्य शब्दप्रधानत्वात् उत्तरपदस्य सर्वादेः सर्वादित्वात् “जस इ:" (१.४.९) इति प्राप्तस्य "न सर्वादिः" (१.४.१२) इति निषेधादप्राप्तस्य च जस इकारस्य अनेन पुनः पक्षे विधिः क्रियत इत्यर्थः ।।११।।
ल.न्यास-द्वन्द्वे वेति। कतरे च दशनाश्चेति कृते द्वन्द्वस्योभयपदप्राधान्येऽपि कतर-दशना इत्यत्र “द्वन्द्वे वा” (१.४.११) इति न विकल्पः, सर्वादेरित्यानन्तर्यषष्ठीविज्ञानात्, यद्वा सर्वादेरित्यावृत्त्या पञ्चमी व्याख्येया, “पञ्चम्या निर्दिष्टे परस्य" (७.४.१०४) इति न्यायाञ्च स्यादेर्व्यवहितत्वान भवति। वस्त्रान्तर-वसनान्तरा इति-वस्त्रमन्तरं येषां ते वस्त्रान्तराः, सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वाद् वस्त्रस्य पूर्व निपातः, एवं वसनान्तराः, ततो वस्त्रान्तराश्च वसनान्तराश्चेति कृते समानार्थत्वादेकशेषः प्राप्नोति, नैवम्-अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम् ; यद्वा एकोऽन्तरशब्दो व्यावधानार्थी, अन्यस्तु विशेषार्थी। ननु चान्तरशब्दो बहुव्रीहौ वर्तते, न द्वन्द्वे इति कथमदः प्रत्युदाहरणम्? न-तदवयवको बहुव्रीहिर्द्वन्द्व इति सोऽपि द्वन्द्व इति प्रत्युदाह्रियते ।।११।।
न सर्वादिः ।१।४।१२।। बृन्यास-न सर्वेत्यादि। सर्वसर्वादिकार्यविधिवैयर्थ्यप्रसङ्गात् सर्वत्र सर्वादेः सर्वादित्वनिषेधायोगादनन्तरं द्वन्द्व इत्यनुवर्तनीयमित्याह-द्वन्द्व इत्यादि। निषेधविषयमर्थात् सर्वादिरिति प्रकरणाच्च प्राप्तमाह-सर्वमित्यादि। पूर्वापराय पूर्वापराद् इति-पूर्वं च अपरं चेति समाहारद्वन्द्वात् सर्वादित्वनिषेधाद् ङ्यादेः स्मायादि न भवति। कतरकतमानामिति-आमः साम् न भवति। दक्षिणोत्तरपूर्वाणामिति-दक्षिणा चोत्तरा च पूर्वा चेति द्वन्द्वः। ननु सर्वस्य सर्वादिकार्यस्य निषेधात् कथमत्र “सर्वादयोऽस्यादौ" (३.२.६१) इति पुंवद्भावः? उच्यते-'सर्वादयः०' इत्यत्र बहुवचनस्य व्याप्त्यर्थत्वाद् भूतपूर्वस्यापि सर्वादेर्ग्रहणात् पुंवद्रावो भवतीति बहुवचनलभ्यमेवा) दर्शयन्नाह-अत्रेत्यादि। अथ कतरे च कतमे चेति द्वन्द्वे सर्वादिकार्यस्य निषेधादज्ञाताद्यर्थेऽपि अक्प्रत्ययाप्रसङ्गे कप्रत्यये सति स्वार्थिकत्वेन प्रकृत्यर्थाविशिष्टत्वात् कतर-कतमका इति (इत्यत्र) "द्वन्द्वे वा" (१.४.११) इति जस इ: कस्मान भवति? अत आह-अत्र सर्वादित्वनिषेधादित्यादि डतर-डतमग्रहणं हि तत्रेतरस्वार्थिकप्रत्ययाग्रहणार्थमुक्तमित्यर्थः ।।१२।।
ल.न्यास-न सर्वादिरिति। सर्वादिकार्यमिति-सर्वादिकार्यं कर्मतामापेदानं न प्राप्नोतीत्यर्थः, प्राप्तावपि परस्मैपदमते। कतर-कतमकाः स्वार्थिकप्रत्ययान्ताग्रहणं डतर-डतमग्रहणेन ज्ञापितम्, तौ च प्रकृतेरन्ते समागच्छतस्ततोऽन्योऽपि स्वार्थिकः प्रत्ययो योऽन्ते समभ्येति तदन्तस्यैवाग्रहणम्, तेन अक्प्रत्यये सति एतत्प्रकरणविहितं कार्यं भवत्येव, ततः सर्वके' इति सिद्धम् ।।१२।।
तृतीयान्तात् पूर्वा-ऽवरं योगे ।१।४।१३।। बृन्यास-तृतीयेत्यादि । योग एकार्थीभावो व्यपेक्षा चोभयं गृह्यते, अन्तग्रहणं समासभेदप्रतिपत्त्यर्थम्, अनेकविभक्तिश्चात्र समासः, तत्रैकार्थीभावे तृतीयाया अन्तो विनाशो लुबित्यर्थः, स च समासे भवति, तत्र जहत्स्वार्थायामजहत्स्वार्थायां वा वृत्तौ उपसर्जनपदानि प्रधानार्थानि पदानि व्यर्थानि व्यानि वा सन्त्येकार्थानि भवन्ति, तृतीयान्तात् परं पूर्वावरं योगे सति सर्वादि न भवतीत्यत्र पक्षे परदिग्योगलक्षणा पञ्चमीति; यदा तु व्यपेक्षार्थो योगशब्दस्तदा तृतीयाऽन्ते यस्येति उद्भूतावयवत्वाद् बहुव्रीहेस्तृतीयायाः समुदायेऽन्तर्भावात् कार्ये व्यापारात् “गम्ययपः कर्मा-ऽऽधारे" (२.२.७४) इति कर्मणि पञ्चमीविधानादर्थद्वारेण तृतीयान्तं पदमाश्रित्य विशेषण-विशेष्यभावे सति लौकिके प्रयोगार्हे वाक्ये पूर्वावरं वर्तमानं सर्वादि न भवतीत्युभयमुदाहरति-मासेन पूर्वाय, मासपूर्वायेत्यादि।