Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 476
________________ परिशिष्ट - २ ૪૧૭ ल. न्यास - सर्वादेर्डस् इत्यादि । 'अस्यै' इति इदम् शब्दस्य " आ द्वेरः " (२.१.४१) इत्यत्वे "लुगस्या०" (२.१.११२) इत्यकारलोपे "आत्" (२.४.१८) इत्यापि " आपो ङिताम्०" (१.४.१७) इति यायाद्यादेशे " अनक्" (२.१.३१) इत्यदादेशे अनेन डस्पूर्वत्वे "डित्यन्त्य० " (२.१.११४) इत्यकारलोपे । अथात्र यायाद्यादेशे कृते सर्वादित्वेन तत्पृष्ठभावित्वात् डसि कृते व्यञ्जनादित्वाभावात् कथमदादेश इत्याहपरत्वादिति । प्रियसर्वायै इति सर्वशब्दस्य प्राग्निपाते प्राप्ते "प्रियः " (३.१.११४) इत्यनेन प्रियस्य प्राग् निपातः । अथ बहुव्रीह्यादेरिति परेण बहुव्रीह्यादेरिति प्रागभिदधे तदेव अनूदितम्, अत आदेः फलं न निरीक्ष्यम्, त्वकं पिताऽस्य, अहकं पिताऽस्य, द्वकौ पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति । अन्ये त्विति - उत्पलादयः ||१८ ।। टौस्येत् ।१।४।१९।। बृ०न्यास--टौसित्यादि। (टोसि) टाश्च ओश्च तस्मिन्निति समाहारनिर्देशः, समाहारे च कार्यायोगात् समाहारद्वारेण समाहारिणो निमित्तत्वेन नामविशेषणस्य आप इत्यनुवर्तमानस्य आदेशिनो विशेष्यत्वेन च लक्ष्येते इत्याह- आबन्तसम्बन्धिनोरित्यादि“षष्ठ्या अन्त्यस्य" (७.४.१०६) इति च न्यायादाबन्तसमुदायान्तस्यैव भवतीत्युक्तमेकारो ऽन्तादेश इति । खट्वया अत्र दीर्घापवाद एत्वम्, खट्वयोरित्यत्र चौत्वापवादः, ततोऽयादेशः । बहवो राजानो यस्यामिति विगृह्य पूर्ववद् डिदापि, तस्य टौसोरेत्वेऽयादेशे च बहुराजया, बहुराजयोः इति । कारीषगन्ध्याशब्दात् टौसोः पूर्ववदेत्वादौ कारीषगन्ध्यया, कारीषगन्ध्ययोः । कीलालपाशब्दाद् विजन्तात् टायाम् “लुगातोऽनापः " (२.१.१०७) इत्याकारलोपे कीलालपा ब्राह्मणेन, एदिति तकारोऽसन्देहार्थः, अन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमिकार आदेशो भवत्याहोस्विद् इकारस्य टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् ।। १९ ।। ल. न्यास - टौस्येत्यादि । एदिति तकारोऽसन्देहार्थोऽन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमेकार आदेशो भवत्याहोस्वित् इकारस्य टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् ।। १९ ।। औता । १।४।२० । बृ० न्यास - औतेति-सूत्रे विशेषस्यानिर्देशात् सामान्येन प्रथमा द्वितीयाद्विवचनौकारयोर्ग्रहणमित्याह- प्रथमा द्वितीया-द्विवचनौकारेणेति । आबन्तस्येत्येकाऽपीयं षष्ठी द्विधाऽर्थवशाद् भिद्यते-सम्बन्धितया स्थानितया, इत्युक्तम् - आबन्तस्य सम्बन्धिना ता सहान्तस्यैव स्थान इति । नन्वेकेनैव सम्बन्धेन चरितार्थत्वात् स्थानसम्बन्धा न घटते, न- एकारस्यादेशत्वात् तस्य च स्थानमन्तरेणासम्भवात् प्रत्यासत्तेस्तस्यैव स्थानित्वं परिकल्पत इत्यदोषः, एवं पूर्वसूत्रेऽपि द्रष्टव्यमिति । माले तिष्ठतः, माले पश्य इति - तिष्ठतः, पश्येत्यनुप्रयोग प्रथमा द्वितीयाद्विवचनयोः क्रमेणाभिव्यक्त्यर्थौ ।। २० ।। ल. न्यास - औतेति - आबन्तस्येत्येकाऽपि षष्ठी द्विधाऽर्थवशाद् भिद्यते सम्बन्धितया स्थानितया चेत्याह- आबन्तस्य सम्बन्धिना औता सह आबन्तस्यैव स्थाने इति । बहुखट्वो एकदेश० इति, "स्थानीवा० (७.४.१०९) इति वा आबन्तत्वम् ।।२०।। इदुतोऽस्त्रे दूत् । १ । ४ । २१ । । बृ०न्यास – इदुत इत्यादि । इदुत इति समाहारद्वन्द्वात् षष्ठी। स्त्रिशब्दवर्जितस्येति-स्त्रिशब्दस्यावयवो यद्यसाविकारो न भवति ततस्तस्य भवतीत्यर्थः । (सख्यौ, पत्यौ इति - ) अत्र सखि - पतिशब्दाभ्यां सप्तम्येकवचनस्य "केवलसखि पतेरौः " (१.४.२६) इत्यौकारे सप्तम्येकवचनस्य इकारात् पर औकारोऽस्तीति कथं तेन सह ईकारादेशो न भवतीत्याह- अत्र त्वित्यादि - अयमर्थ:

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564