Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૧૪
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન अथवा बहुव्रीहिरेव-तृतीयाया अन्तो विनाशो यत्र, तृतीया अन्ते यस्येति वा, पूर्ववत् पञ्चम्यामर्थद्वयलाभः। यदि वा “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इत्यन्तत्वे लब्धेऽन्तग्रहणं द्वन्द्वार्थम्-तृतीया च अन्तश्च तृतीयान्तं तदाश्रित्य योगे सतीत्येवमपि पूर्वोक्तपक्षद्वयपरिग्रहः सिद्धयतीति। "प्रत्ययः प्रकृत्यादेः" (७.४.११५) इत्यन्तलाभात् तदभावे वाक्यमेवैकं गृहीतं स्यान्न तु समासः, 'तृतीयासमासे' इत्यपि कृते समास एकः संगृहीतो भवति, न वाक्यम्। ननु लाघवार्थं तृतीयासमासे' इत्येवोच्यताम्, न चैवं सति तृतीयासमासेऽन्यस्यापि सर्वादेः सर्वादिकार्यप्रतिषेधप्रसङ्ग इति वाच्यम्, “ऊनार्थपूर्वाद्यैः" (३.१.६७) इति साक्षात् प्रतिपादितस्य प्रतिपदोक्तस्य सर्वादिषु पूर्वावरशब्दसम्बन्धिन एव तृतीयासमासस्य ग्रहणादिति, अथैवं सति वाक्यस्य परिग्रहाभाव इति चेत्? नएकस्तृतीयासमासः प्राथमकल्पिको यस्मिनैकपद्यमेकविभक्तित्वं चोच्यत इति, अन्यस्तु तृतीयासमासार्थानि पदानि तृतीयासमास इति तादर्थ्यात् कटार्थवीरणवत् ताच्छब्द्यं लभते, तस्य ग्रहणे वाक्यस्यापि ग्रहणं भवतीति, सत्यम्-भवेदेवं केवलमलौकिकमप्रयोगसमवायिवाक्यं संगृहीतं स्यात्, तस्यैव तदर्थत्वात् लौकिकस्य तु विपर्ययात्, मुख्यार्थसम्भवे गौणपरिग्रहाभावात् वाक्यस्यापरिग्रह इति। ग्रामात् पूर्वस्मै इति-अत्र तृतीयाया अभावान भवति प्रतिषेधः। तृतीयात्तमाश्रित्येति किम्? पूर्वस्मै, मासेनेत्यत्र न भवति, अस्ति ह्यत्र योगमात्रम्, न तृतीयान्तमाश्रित्य, तथाहि-अत्रायमर्थ:-दीयतां कम्बलः पूर्वस्मै, मासेन गतश्चैत्रः, नन्वत्र योगग्रहणेनैव व्यावर्तितमिदम्, नैवम्-तृतीयान्तमाश्रित्येति लभ्यत्वाद् विशिष्टयोगस्य ।।१३।।
ल.न्यास-तृतीयान्तादित्यादि। “अश्ववडव०" (३.१.१३१) इति पूर्वशब्दस्यावरेण स्वेन समाहतिर्भणिष्यत इति सूत्रत्वात् समाहारः, कर्मधारयो वा पूर्वावयवयोगादिति। योगे सम्बन्धे इति-योग एकार्थीभावो व्यपेक्षा चोभयं गृह्यते। मासपूर्वायेति-"ऊनार्थ०" (३.१.६७) इति समासः, लुप्ताया अपि तृतीयायाः “स्थानीवा०" (७.४.१०९) इति स्थानित्वेन तृतीयान्तत्वम्, “लुप्यय्वृल्लेनत्" (७.४.११२) इति परिभाषया पूर्वस्य यत् कार्यं लुपि निमित्तभूतायां तदेव निषिध्यते, अतः “स्थानीवावर्णविधौ” (७.४.१०९) इति स्थानित्वं ततस्तृतीयान्तत्वं सिद्धम्। ननु यास्यति चैत्रो मासेनेत्यत्र योगग्रहणं विनाऽपि “समर्थः पदविधि:" (७.४.१२२) इति न्यायेन भविष्यति निषेधः, किं योगग्रहणेन? उच्यतेयोगग्रहणादन्यदपि सिद्धम्-अपरैः सामान्येन तृतीयान्तेन योगे प्रतिषेधः कृतः, न तृतीयान्तात्, तेषां मते पूर्वाय मासेनेत्यपि भवति, तन्मतसङ्ग्रहार्थं तु पूर्वदिग्योगेऽपि पञ्चमी व्याख्येया ।।१३।।
तीयं ङित्कार्ये वा ।१।४।१४।। बृन्यास-तीयमित्यादि। तीयमिति-अविनाभावात् प्रत्ययेन प्रकृतेराक्षेपात्, *तात्स्थ्यात् तत्समुदायस्य तस्य च तीयमिति विशेषणाद् विशेषणे च तदन्तविधेरुपस्थानादाह-तीयप्रत्ययान्तं शब्दरूपमिति। ङित्कार्य इति-ङित्स्थानिकस्मभावादौ ङिदाश्रये च डसागमेऽयं विकल्प इति, डसागमोऽपि हि आपो भवन् ङित एव भवति, न तु ङिति परे, तेन सर्वादेरन्त्यात् स्वरात् पूर्वोऽग्न भवति। नह्यग् ङित्कार्यम्, तत्रागभावे कप्रत्यये स्वार्थिकप्रत्ययान्ताग्रहणात् स्मायादीनामभावः । अर्थवत इति-'पटुजातीयाय' इत्यादौ जातीयस्य 'ईय' इत्यस्य चार्थवत्त्वाज्जातीय इत्येतदेकदेशस्य 'मुखतीय' इत्यत्र चावयवसम्बध्यमानस्य तीयस्यानर्थकत्वाद् ग्रहणाभावः। लाक्षणिकत्वाद् वा, तथाहि-जातीयसमुदायेन तीयो लक्ष्यते मुखतीयसमुदायेन चेति लाक्षणिकत्वमित्यर्थः। पटुशब्दात् “प्रकारे जातीय" (७.२.७५) इति जातीयर् ।।१४ ।।
ल.न्यास-तीयं डिदित्यादि। द्वितीयिकायै इति-"स्व-ज्ञा-ऽज-भस्त्रा०" (२.४.१०८) इति आप इः, यत्र तु इत्वं न दृश्यते तत्र "ड्यादीदूतः के" (२.४.१०४) इति हस्वत्वम् ।।१४ ।। * ला.सू. सम्पादितपुस्तके 'तात्स्थ्यात् तया तत्समुदायस्य, तस्य च तीयमिति विशेषणाद्,' इति पाठ उपलभ्यते,
परन्त्वानन्दबोधिनीवृत्त्यनुसारेण मुद्रित उपरितनपाठः समीचीन आभाति।
Loading... Page Navigation 1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564