Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 467
________________ ४०८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति प्रतिज्ञानस्य बाध: स्यात्, अकः तन्मध्ये पतितत्वेन तु व्यवहितेरभावात् के पुनः सति पूर्वस्य द्विवचनस्य लुप्तत्वादपरस्य च केन व्यवधानात् 'कविषये व्यवहितद्विवचनविषय उभशब्दः साधुर्भवति' इति वक्तव्यं स्यादिति चेत् ? तदर्थोऽपि न युक्त:-कस्य स्वार्थिकत्वात् स्वार्थिकाश्च प्रत्ययाः प्रकृतेरविशिष्टार्था भवन्तीति प्रकृतिग्रहणेन ग्रहणात्, 'द्विवचनविषयत्वाद्' इत्यत्र व्यर्थाभिधानसमर्थ इत्यर्थस्य विवक्षितत्वात् द्विवचनशब्देन स्यादिप्रत्ययाग्रहणात् स्वार्थिकत्वेन चोभार्थस्याहानात्, आप्वद् वचनमन्तरेण द्विवचनपरतायाः सिद्धत्वात्, ननु यथा स्वार्थिकत्वेन परार्थानभिधानात् कप्परस्य साधुत्वमेवं त्र-तस्परस्यापि साधुत्वप्रसङ्गः, नैवम्-त्र-तसादीनां विभक्त्यर्थमात्रवचनत्वेन सर्वस्यैव भेदस्य परित्यक्तत्वादसाधुत्वमुभशब्दस्य, अत एवोच्यते पूर्वे:-'उभयोऽन्यत्र' इति, एवं तर्हि हेत्वर्थप्रयोगे "सर्वादेः सर्वाः" (२.२.११९) इति सर्वविभक्त्यर्थ इत्याह-उभशब्दस्येत्यादि। उभशब्दाद् हेतुशब्दाञ्चौकारे “ऐदौत् सन्ध्यक्षरैः” (१.२.१२) इत्यौत्वे “इदुतोऽस्त्रेरीदूत्" (१.४.२१) इत्यत्वे उभौ हेतू। नन्वन्यतर इत्यन्यशब्दो डतरप्रत्ययान्तः, ततश्चान्यतरशब्दस्य डतरग्रहणेनैव सर्वादिकार्य भविष्यति, किं पुनरस्योपादानेनेत्याह-डतरग्रहणेनैवेत्यादि-अयमर्थःडतरग्रहणेनेवान्यतरशब्दस्य डतमग्रहणेनान्यतमशब्दस्यापि सर्वादित्वं स्यादिति, तेन 'अन्यतमाय, अन्यतमं वस्त्रम्, अन्यतमे' इत्यादौ स्मै-दकार-स्मिन्नादयो न भवन्ति; अन्ये तु डतर-डतमविधावप्यन्यशब्दं नाधीयते, तेषामयं डतरार्थ एव पाठः, अन्यतरमिति त्वन्य एवायमव्युत्पन्न इत्यपरे ब्रुवन्ति, अयमन्यतरशब्दो डतरान्तो न भवति, निर्धारणे हि सः, अनिर्धारणेऽयमव्युत्पन्नः, यद्वा तरणं तरः, अन्यश्चासौ तरश्चेति अन्यस्तरोऽस्येति वा द्वयोः प्रकृष्टोऽन्य इति वाऽन्यतरः, तन्मते डतमान्तस्यापि सर्वादित्वमस्तीत्याहएक इत्यादि। तत्र यथा सर्वस्मिन्निति प्रयुक्ताः सर्वादयो दृश्यन्ते, न तथा डतरस्मिन् डतमस्मिन्निति प्रयुक्तं दृश्यते, रूपनिग्रहश्च प्रयोगाद् भवति, तत् कोऽयं शब्दो 'डतर डतम' इतीत्याह-डतर-डतमावित्यादि। न परं रूपनिग्रहहेतुः प्रयोग एव, किन्तु शास्त्रमपि, तत्र “यत्-तत्-किमन्यात्०" (७.३.५३) इति डतर-डतमौ प्रययौ विधीयेते, तयोर्यदादिभ्यो विधीयमानयोः केवलयोः प्रयोगाभावात् डतर-डतमग्रहणं तदन्तान् प्रयोजयति, एवं तर्हि स्वार्थिकत्वात् प्रकृत्यविशिष्टतया यत्-तदादिप्रकृतिद्वारकमेव सर्वादित्वं भविष्यति, किमनयोरुपादानेनेत्याह-तयोरित्यादि-यदि हि डतर-डतमयोः पाठो गणे न क्रियेत तदेतरस्वार्थिकप्रत्ययान्तस्यापि सर्वादेः सर्वतमायेत्यादावपि सर्वादिकार्य स्यात्। प्रयोजनानन्तरं चाऽऽह-अन्यादीत्यादि-डतर-डतमान्तानां “पञ्चतोऽन्यादेरनेकतरस्य दः" (१.४.५८) इत्यन्यादित्वाद् दादेशो यथा स्यादित्येवमर्थं च डतर-डतमग्रहणम्, नहि 'अन्य अन्यतर इतर डतर डतम' इत्यपाठे पञ्चतोऽन्यादेरुच्यमानो दादेशो लभ्येत, ननु च सत्यस्मिन् प्रयोजने कथं स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थं स्याज्ज्ञापकमिदम्, अन्यथाऽनुपपद्यमानं ज्ञापकं भवति, न च सत्यस्मिन् प्रयोजनेऽस्यान्यथानुपपत्तिरस्ति, न च दादेशार्थमात्रत्वे दादेशविधावेव डतरडतभ-ग्रहणं कर्तव्यम्, गणे तु करणात् स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थमपि भवतीति वाच्यम्, गणे करणमसंज्ञायामिति विशेषणार्थं स्याद्, गुरुश्च 'अन्या-ऽन्यतरेतर-डतर-डतमस्य' इति निर्देशः स्यादिति; उच्यते-यथेदं दादेशार्थमन्यादिपञ्चके भावाद् भवति तथा स्मै-स्मादाद्यर्थमपि स्यात् सर्वादित्वात्, तथाहि-यदि स्वार्थिकप्रत्ययान्तानां सर्वादित्वं स्यात् तदा स्मैस्मादादेशार्थं डतरडतमोपादानमनर्थकम्, अतः स्वार्थिकप्रत्ययान्तानां सर्वादित्वं न भवतीति तदुपादानं स्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थं विज्ञायत इति, तदुदाहरति-सर्व मायेत्यादि । त्वशब्द इति अन्यशब्दस्यार्थोऽस्येत्यन्यार्थः । त्वस्मै अन्यस्मै इत्यर्थः । त्वशब्द इति अकारान्तसन्देहव्युदासार्थं त्वच्छन्द इति निर्देशः, तत्रैकमर्थं प्रति व्यादीनां तुल्यबलानामविरोधिनामनियतक्रम-योगपद्यानां भेदेन चीयमानता समुच्चयः, तस्य पर्यायस्तद्वाचक इत्यर्थः । अथास्य तकारान्तत्वात् स्मैप्रभृतिसर्वादिकार्यायोगादुपादानमनर्थकमित्याह-तस्येत्यादि। अज्ञातादिति-त्वच्छब्दस्याज्ञातार्थे "त्यादिसर्वादेः" (७.३.२९) इत्यन्त्यात् स्वरात् पूर्वमकि पञ्चम्येकवचने च त्वकतः। नेमशब्द इति-अर्धशब्दस्यार्थोऽस्येति विग्रहः। सम-सिमौ सर्वार्थाविति-सर्वशब्दः संख्याप्रकारकयावद्विषये कात्न्ये वर्तते, तत्र सङ्ख्याकारन्ये यथा-सर्वे आयाताः, यावन्तो लिखिता दश द्वादश वा ते कात्न्येनायाता इत्यर्थः, एवंविधसर्वार्थे वर्तमानौ सम-सिमशब्दौ सर्वादी इत्यर्थः । सर्वार्थत्वाभावे न भवतीत्यनेनार्थान्तरवृत्तिव्यवच्छेदफलं दर्शयति- समायेत्यादि-अविषमायेत्यर्थः। स्वाभिधेयापेक्षेत्यादि-अवधिर्मर्यादा तस्य नियमोऽऽवश्यम्भावोऽवधिभावादभ्रंशो व्यवस्थाऽपरपर्यायः, तथाहि-नात्र काचिद् व्यवस्थाऽरित, अव्यवस्था वर्तते, व्यवस्था कर्तव्येति व्यवस्थाशब्दानियमो गम्यते, स च स्वाभिधेयापेक्षः, पूर्वादीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थस्तमपेक्षते यः स स्वाभिधेयापेक्षः, चोऽवधारणे,

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564