________________
श्रीचन्द्राचारपि स्वकृतयोगविधी सम्यक्त्यारोपणानन्तरं श्रावकवर्जनीयद्वाविंशत्यभक्ष्यप्रतिपादक गाथाद्वयं प्रत्यपादि, तथाहि "पंचुंबर चउविगई, अनायफल कुसुमहीमविसकरगे । मज राईभोयण, घोलवडा रीगणी चेव ॥१॥ पपोटय संघाडय, वायंगण काईवणे य तह चेव । बावीसं दवाणि, अभक्खणीयानि सड्डाणं ॥२॥" एवं श्रीजिनपतिसूरिशिष्य-श्रीपूर्णभद्रकृत श्रीकृतपुण्यकचरित्रेऽपि शृङ्गाटकानामभक्ष्यत्वं, तथाहि-"मचं १ मांसं २ नवनीतं ३, मधू ४ दुम्बरपञ्चकम् ९ । अनन्तकाय १० मज्ञात-फलं ११ रात्री च भोजनम् १२ ॥१॥ आमगोरससंपृकं, द्विदलं १३ पुष्पितौदनम् १४ । दभ्यहतियातीतं १५, सन्धानं १६ कुथितान्नकम् १७॥२॥ बहुवीजं यच्च फलं १८, शंगाटकान् १९ सर्वमृत्तिका २० करकान् २१ 1 हिम २२ विष २३ वृन्ताकीफल २४, घोलवटान २५ वर्जयेत् शश्वत् ॥३॥' अत्राऽयं परमार्थ:-श्रीप्रवचनसारोद्धारादौ झंगाटकानि द्वाविंशत्यभक्ष्यमध्ये नाऽऽनीतानि, परं श्रीचन्द्रसूरिकृत-योगविधिग्रन्थे, श्रीपूर्णभद्रकृत-श्रीकृतपुण्यकचरित्रे च प्रोक्तत्वात् १ मोहोदयकारित्वात् २ जीवद्धययुक्तत्वात् ३ विकटमांसतुल्यत्वेन गणितत्वात् ४ धर्मार्थिनां श्राद्धादीनां अभक्ष्याणि अग्राह्याणि ज्ञेयानि ॥५४॥
॥ इति शृङ्गाटकानामभश्यत्वाधिकारः॥५४॥ ननु-लवण १ हरिताल २ मनःशिला ३ पीपली ४ खजूर ५ द्राक्षा ६ हरीतकी ७ पत्र ८ पुष्प ९ फल १० प्रभृतीनां प्रासुकत्वं भवति न वा ?, उच्यते-भवति, कथमित्याह-श्रीबृहत्कल्पसूत्रवृत्तिषु योजनशतागमनादिकारणैः तेषाम
257