Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 386
________________ सामाचारीशत कम् । ॥ १९१ ॥ |इत्यादि । अम्बा निहितडिम्बा मे, सिद्धबुद्धश्रुतान्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ १० ॥ ततः श्रीपद्मावतीदेवतानिमित्तं करोमि काउस्सगं अन्नत्थू इत्यादि । धराधिपतिपत्नीया, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावलीः ॥ ११ ॥ ततः श्रीचक्रेश्वरीदेवता निमित्तं करेमि arrear अन्नत्थू इत्यादि । वञ्चचकरा चारु - प्रवालदलसन्निभा । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ १२ ॥ ततः श्रीअच्छुप्ता देवतानिमित्तं करेमि काउस्सगं अन्नत्थू इत्यादि । खङ्गखेटककोदण्ड - बाणपाणितडिद्युतिः । तुरङ्गगमनाच्छुप्ता, कल्याणानि करोतु मे ॥ १३ ॥ ततः श्रीकुबेरादेवतानिमित्तं करेमि अबू इत्यादि । मथुरापुरि सुपार्श्व - श्रीपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ १४ ॥ ततः श्रीब्रह्मशान्तिदेवतानिमित्तं करेमि कासगं अवत्थू इत्यादि । ब्रह्मशान्तिः स मां पायादपायाद्वीर सेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥ १५ ॥ ततः श्रीगोत्रदेवतानिमित्तं करेमि काउस्सगं अनत्थू इत्यादि । या गोत्रं पालयत्येव, सकलाऽपायतः सदा । श्रीगोत्र देवता रक्षां सा करोतु नताऽङ्गिनाम् ॥ १६ ॥ ततः श्रीशक्रादिसमस्त देवतानिमित्तं करेमि काउस्सगं अन्नत्थू इत्यादि । श्रीशऋप्रमुखा यक्षाः, जिनशासनसंस्थिताः । देवदेव्यस्तदन्येऽपि, संघं रक्षत्वपायतः ॥ १७ ॥ ततः सिद्धायिका - श्रीशासनदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीमद्विमानमारूढा, यक्षमातङ्गसेविता । सा मां सिद्धायिका पातु, चक्रचापेषु धारिणी ॥ १८ ॥ 282 शान्तिकविधिर धिकारः १०० ॥ १९१ ॥

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393