Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
-
॥ ग्रन्थकृत्प्रशस्तिः ॥ सामाचारीशतकमिदमासूत्रितं सूत्रगत्या, किंचित् वृत्तिप्रकरणवशात् संप्रदायाच्च किंचित् । चेन् ग्रन्थेऽस्मिन् भवति किमपि श्रीजिनाज्ञाविरुद्धं, संघाध्यक्ष मम जडधियो दुष्कृतं स्याञ्च [तस्य] मिथ्या ॥१॥ जैना गच्छा जगति बहवो भिन्नभिन्नाभिधाना, भिन्नाचारा निजनिजमतं स्थापयन्ति प्रमाणम् । गच्छाधीशाः श्रुतनिगदिता संमति दर्शयन्ति, [तव्यामोहो] तस्या मोहो न भवति कथं ? यज्जिनाज्ञैव सत्या ॥२॥ प्रारब्धं किल सिन्धुदेशविषये श्रीसिद्धपुर्यामिदं, मूलत्राणपुरे कियद्विरचितं वर्षत्रयात् प्राग्मया । संपूर्ण विदधे पुरे सुखकरे श्रीमेडतानामके, श्रीमद्विक्रमसंपति -मुंबिरोनिर्षिते १६ ॥३॥ प्रवर्तमाने जिनवीरशासने, परम्परायां गणभृत्सुधर्मणः श्रीयनशाखा सुकुले च चान्द्रे, गणे स्फुटे कौटिकनामधेये ४ श्रीपातिसाहिमान्ये, युगप्रधाने प्रधानसौभाग्ये । खरतरगच्छाधीशे, विजयि जिनसिंहमूरिगुरौ ॥ ५॥ अकबरसाहिस्तुमान्यः, श्रीमजिनचन्द्रसूरिगुरुराजाः । जाता युगप्रधाना-स्तच्छिष्यः सकलचन्द्रगणिः ॥ ६॥ तच्छिष्यसमयसुन्दर-सदुपाच्याया अकार्युरिदमेषम् । सामाचारीशतकं, सततं स्वपरोपकाराय ॥७॥ सुशिष्यो वाचनाचार्य,-स्तव्याकरणादिवित् । हर्षनन्दनवादीन्द्रो, मम साहाय्यदायकः ॥ ८॥
इति श्रीसमयसुन्दरोपाध्यायविरचिते पञ्चमप्रकाशे श्रीसामाचारीशतकं संपूर्णम् ।।
सामा०३
285

Page Navigation
1 ... 387 388 389 390 391 392 393