Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 387
________________ अस्मिन् कायोत्सर्गे लोगस्स ४ पारिते लोगस्स १ तत उपविश्य नमस्कारशक्रस्तबादिकथनपूर्व जयवीयरायपर्यन्त वाच्यं । ततः संपूर्णाङ्गोपाङ्गाः सभार्याः सुशीलाः सपुत्राः समृद्धा वद्धहस्तमहुलीदवरका गुणनभणनविचक्षणा अष्टौ इन्द्रस्थानीयाः परिहितधौतिका आकार्यन्ते, तत्र द्वौ हस्तयोः कलशं गृहीत्वा तिष्ठत, एको धूपं ददाति, एकः कुसुमचन्दनवासक्षेपं करोति, अन्ये चत्वारो मधुरस्वरेण शान्तिपूर्वक सप्तस्मरणादि गुणयन्ति । तथा द्वौ कलशधारको कुण्डिकातः कलशान, भृन्ना सहरमस्कारपूर्ण माजलधारा दत्तः पश्चात् नमोऽहत्सिद्धाचार्योपाध्यायेति पूर्व अजितशान्तिस्तवः पठ्यते, पदे पदे जलधारादानं एवमग्रेतनस्मरणे अपि, भक्कामरशान्तिद्वयादीन्यपि । एवमन्योऽपि सर्वसंघः सप्तस्मरणादि गुण. यति पश्चाद् भृते मूलकलशे पूर्व रक्षित श्रीपार्श्वनाथप्रक्षालनपानीयमपि कलशमध्ये क्षिप्यते, ततो मङ्गलप्रदीपं भ्रामयित्वा चेलोत्क्षेपैः पुष्पधूपादिदानः, सम्मान्यश्रीदिक्पतीनां विसर्गम् । कृत्वा शेषान् शेषदिव्यावतारान् , प्राप्तानारात् प्रेषयेत् स्वाधिवासान् ॥१॥ __ अर्हदभिषेकदर्शित-सान्निध्यनिरस्तकल्मषोल्लाघाः । गच्छन्ति यथास्थाने, ये केचिदुपागता देवाः ॥ २॥ शकाद्या लोकपाला दिशि विदिशि गताः शुद्धसद्धर्मसक्ताः, आयाताः स्नात्रकाले कलशहतिकृते तीर्थनाथस्य भक्त्या। न्यस्ता शेषाऽऽपदाद्या विहितशिवसुखाः स्वास्पदं सांप्रत ते, मात्रे पूजामवाप्य स्वमपि कृतमुदो यान्तु कल्याणभाजः॥ ३ ॥ अनेन पद्यत्रयेण दिक्पालविसर्जन क्रियते, पश्चात् सर्वोऽपि संघो देवगृहे निकरादानपूर्व शान्तिजलं केन्दुकसत्कमहुलीसूत्रं च लाति, महुलीसूत्रं हस्तादौ वध्यते, कलशमध्याच्छान्तिजलं गृहीत्वा सर्वत्र गृहादौ प्रक्षिप्यते, ततः संघ 283

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393