SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ - ॥ ग्रन्थकृत्प्रशस्तिः ॥ सामाचारीशतकमिदमासूत्रितं सूत्रगत्या, किंचित् वृत्तिप्रकरणवशात् संप्रदायाच्च किंचित् । चेन् ग्रन्थेऽस्मिन् भवति किमपि श्रीजिनाज्ञाविरुद्धं, संघाध्यक्ष मम जडधियो दुष्कृतं स्याञ्च [तस्य] मिथ्या ॥१॥ जैना गच्छा जगति बहवो भिन्नभिन्नाभिधाना, भिन्नाचारा निजनिजमतं स्थापयन्ति प्रमाणम् । गच्छाधीशाः श्रुतनिगदिता संमति दर्शयन्ति, [तव्यामोहो] तस्या मोहो न भवति कथं ? यज्जिनाज्ञैव सत्या ॥२॥ प्रारब्धं किल सिन्धुदेशविषये श्रीसिद्धपुर्यामिदं, मूलत्राणपुरे कियद्विरचितं वर्षत्रयात् प्राग्मया । संपूर्ण विदधे पुरे सुखकरे श्रीमेडतानामके, श्रीमद्विक्रमसंपति -मुंबिरोनिर्षिते १६ ॥३॥ प्रवर्तमाने जिनवीरशासने, परम्परायां गणभृत्सुधर्मणः श्रीयनशाखा सुकुले च चान्द्रे, गणे स्फुटे कौटिकनामधेये ४ श्रीपातिसाहिमान्ये, युगप्रधाने प्रधानसौभाग्ये । खरतरगच्छाधीशे, विजयि जिनसिंहमूरिगुरौ ॥ ५॥ अकबरसाहिस्तुमान्यः, श्रीमजिनचन्द्रसूरिगुरुराजाः । जाता युगप्रधाना-स्तच्छिष्यः सकलचन्द्रगणिः ॥ ६॥ तच्छिष्यसमयसुन्दर-सदुपाच्याया अकार्युरिदमेषम् । सामाचारीशतकं, सततं स्वपरोपकाराय ॥७॥ सुशिष्यो वाचनाचार्य,-स्तव्याकरणादिवित् । हर्षनन्दनवादीन्द्रो, मम साहाय्यदायकः ॥ ८॥ इति श्रीसमयसुन्दरोपाध्यायविरचिते पञ्चमप्रकाशे श्रीसामाचारीशतकं संपूर्णम् ।। सामा०३ 285
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy