________________
प्रशस्तिः
सामाचारीशतकम् ।
%*-errai ya
॥१९३॥
॥ लेखक-प्रशस्तिः॥ श्रीमद्विक्रमतो धरागगनपालेयरोचिमिते, वर्षे लोद्रपुरे बरे यदुकुले भाटीसुगोत्रेऽभवत् । राजा श्रीसगरः प्रजासुखकरस्तत्सुन्दरी श्रीमती, सौख्यं मुक्तबलोलपोतदोहा परमजाः ॥ १॥ अष्टौ तेषु मृताश्च मारिवशतो दुर्दैवतोऽनुक्रमे, दुःखात्तौ पितरौ वियोगविधुरी जातो च तस्मिन् क्षणे । कुर्वाणा विहतिक्रमात् क्षितितले श्रीवर्धमानप्रभोः, शिष्याः सूरिजिनेश्वराः खरतराः श्रीलोद्रपुर्या गताः॥२॥ राजाद्याः सपरिग्रहाः प्रमुदिता नन्तुं गताः सद्गुरुन् , श्रुत्वा श्रीजिनधर्ममर्म सकलं सन्तोषमापुस्तराम्। विज्ञप्तिं विदधे नृपः करयुगं संयोज्य राज्ञाऽन्वितः, स्वामिन्नष्ट ममाऽङ्गजा मृतिमगुजींवत्यथो ते त्रयः॥३॥ तत्कार्य च यथा परोपकृतिभिर्जीवेत् सुतानां त्रयं, लाभो वो भविता स को नृपतिना प्रोक्तं तदा मत्पदे । राजाऽयं भविता सुतः कुलधरः श्रीजैनधी पुनः, पुत्री श्रीधरनामराजधरको शुद्धास्तिको भाविनौ ।। ४॥ ज्ञात्वा लाभममुं तथैव गुरुभी रक्षाकृताम्नायतो, वासक्षेपवशेन तौ नृपसुती श्राद्धौ कृतौ भ्रातरौ। ताभ्यां लोद्रपुरे जिनेन्द्रभवनं प्रोच्चस्तरं कारितं, तद्गोत्र भणशालिनाम समभूदाण्डादिशालावशात् ॥५॥ श्रीधरश्रावकस्याऽऽसन् , पञ्च पुत्रा अनुक्रमात् । खीमसी १ भीमसीनामा २, जगसी ३ रूपसी ४ तथा । देवसी ५ च यथा ख्याताः, पाण्डवाः पण्डुभूपतेः ॥ ६॥
%25-0%A5%
80-%
॥१९॥
286
E%