Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 361
________________ ॥ अथ पञ्चमः प्रकाशः ॥ ॥ श्रीमत्स्थभणपार्श्वनाथाय नमः ॥ ननु - साध्वीभिर्दशा श्रुतस्कन्धादिच्छेदग्रन्था वाच्यन्ते न वा ? उच्यते - स्वत एव परं न सभाजन्धेन, निषिद्धत्वात् स्वतो वाचनं तु संगतिभङ्गति । यतः तत्तपोवनं तासां निर्दिष्टमस्ति, अन्यथा तत् तपोवहनं अपार्थकं स्यात् अपि च 'अन्नेसिं च | पवेयणीअमिति' ता न भणन्ति, अत एव स्वतो वाच्यते, न वाचना अनुज्ञाता तासाम् ॥ ८९ ॥ ॥ इति साध्वीनां स्वतः कल्पसूत्रादिवाचनाधिकारः ॥ ८९ ॥ ननु - प्रतिक्रमणद्वयं करणे पडावश्यकानां कुत्र कुत्र आद्यन्तौ व्यवस्थापितौ । उच्यते-अत्र वृद्धसंप्रदाय एव तत्र | सायन्तनप्रतिक्रमणे 'करेमि भंते' इत्यत आरभ्य अतिचारकायोत्सर्गपारणं यावत् सामायिकावश्यकं प्रथमं १ । ततश्चतुर्विशतिस्तवप्रान्ते चतुर्विंशतिस्तव आवश्यकं द्वितीयं २ । ततो मुखवस्त्रिकाप्रतिलेखनपूर्वं वन्दनकं आदितः कृत्वाऽऽलोचनासूत्रं यावत् तृतीयं चन्दनावश्यकं ३ । ततः प्रतिक्रमणसूत्रत आरभ्य क्षामणाचन्दनपूर्व आयरियउवज्झाए गाथात्रयप्रान्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं ४ । ततः चारित्रदर्शनज्ञानानां कायोत्सर्गत्र्यकरणेन पञ्चमं कायोत्सर्गाचश्यकं ५ । पृष्ठं तु प्रत्याख्यानरूपं आवश्यकं ६ पूर्वं कृतमिति । प्राभातिकप्रतिक्रमणे तु पडावश्यकानि अनुक्रमेण भवन्ति, तथाहि-- करेमि भंते

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393