Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा
शतकम् ।
॥ १८४ ॥
"बीअपएणं तिहुवरि तिहिं तु वत्थेहिं पाउअंगी उ । सामाइअवयं पालइ, तिषयं परिहरइ पडिकमणे ॥ ४८ ॥” ननु - अपवादे निर्मन्थानां कल्पसप्तकं अनुज्ञातमस्ति, तथाहि कल्पभाष्ये तृतीयोद्देशे
"अप्पा असंथरंतो, निवारिओ होइ तिही वत्थेहिं । गिन्हति गुरुविदिण्णे, पगासपडिलेहणे सत्त ॥ ३९८५ ॥ तिन्नि कसणे जहशे, पंण्व य पडिदुब्बलाइँ गेव्हेजा । सत्त य पडिजुन्नाई, एवं उक्कोसगं गहणं ॥ ३९८६ ॥” इति, 'निवारितो हो'त्ति अभ्यादिविराधनातां निवारितो भवतीत्यर्थः । तत्कथं सामायिकस्थत्वेन निर्ग्रन्धतुल्यस्याऽपि श्राद्धस्य अपवादतः त्रीणि एव उक्तानि कथं वा सामायिकस्थत्वेन निर्ग्रन्थीसमानायाः श्राविकाया अपि त्रीण्येव उक्तानि ? इति श्वेत् उच्यते यतीनां यावत् जीविकत्रतत्वेन विकृष्टतपः कारितत्वेन शीतलाहारभोजित्वेन अनभ्यङ्गशरीरत्वेन प्रायो मलिनजीर्णवस्त्रत्वेन अनिवातोपाश्रयत्वेन रुक्षवृत्तित्वेन च शीतं प्रचुरं लगति, तेन च सोढेन अल्पसंहननत्येन ते घनं आबाध्यन्ते इति तेषां सप्त उपदिष्टानि, श्राद्धास्तु मुहूर्त्तमात्र पाल्यसामायिकत्रतत्वादिना तद्विपरीता इति तेषां कियतापि शीतेन | सोढेनाऽपि न कदाचिद् आवाधा भवतीति त्रीणि एव उक्तानि एवं श्राविकाणामपि भाव्यं, अत्यन्तापवादे तु एवं "जहा समाहिं बणि वि कडाई पाउणइ" इति वचनात् साधूनामिव द्वयानामपि एषां बहूनि अपि पावरीतुं कल्पन्ते । यदि वा विकृष्टतपः प्रतिपत्तिवशात् यदा एप सामायिके चिरकालं तिष्ठति, यथोपधानतपोवाही, तदा अस्य गृहस्थस्याऽपि | तावन्ति प्रावरणानि कल्पन्ते, यावद्भिः प्रावृतैः शीतधर्मादिना न आक्रम्यते, यद्यपि उपधानतपोवाही पौषधस्थ एवोच्यते न सामायिकस्थः तथापि पौषधे सति अवश्यमेव सामायिकं भवतीति तदीया एव सर्वाऽपि उपसर्गापवादादिव्यवस्था
268
साधूनां खत्सर्ग-अप
बाद मेध्ये
वस्त्रग्रह
णाधिकारः
९६
॥ १८४ ॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393