Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
270
समणे भगवं महावीरे उत्पन्ननाणदंसणधरे अरहा जिणे केवली तियपप्पन्नमणागयवियाणए" इत्यादि । पुनः श्रीभगवत्यां कोणिकसंग्रामे गाढप्रहारजर्जरिताङ्गो नागपौत्रो वरुणनामा पर्यन्ताराधनाऽभिमुखः प्राह “नमुत्थुणं समणस्स भगवओ महावीरस्स आइगररस जाव संपाविउकामस्स मम धम्मायरियस्स त्ति", पुनः श्रीविशेषावश्यकगाथायामपि धर्माचार्यत्वे - "ठवणा विय निअगुरुणो, सुत्ते भंते त्ति जेण गणहारी । आमंतइ तित्थयरं, सेसा य अप्पणो य गुरुं ॥ १ ॥” इति । पुनः श्रीउपदेशमालासूत्रे श्रीधर्मदासगणिनाऽपि प्रोक्तं-
"आयरिय[भत्ति ] धम्मरागो, कस्स सुनक्खत्तमहरिसीसरिसो । अवि जीविअं वयसिअं न चैव गुरुपरिभवो सहिओ ॥१००॥” पुनः श्रीपञ्चमाङ्गे सिंहानगारेण रेवत्यग्रेऽपि श्रीमहावीरदेवस्य अर्हतो धर्माचार्यत्वं प्रोक्तमस्ति, एवमनेकेषु स्थानेषु अर्हतो धर्माचार्यत्वं निगदितमस्ति, अतो न कश्चिद्विरोधः । ननु भवतु नाम एकस्यामेव अवस्थायां स्थापनाचार्यो वा स्थापनार्हन् वा, परमसौ स्थाप्यप्रमाणमेव कर्तुमुचितो न लघुतरो महत्तरो वा, तावत्प्रमाणे हि तस्मिन् दृष्टे सोऽयं इति अध्यवसन्ति तद्भकाः, किं नाऽध्यवसितः कृतपुण्यप्रतिनिधिः कृतपुण्य इति तत्पुत्रैः इति वाच्यं । स्थापनाकल्पस्य आगमे अनियत - [मानस्यैव प्रतिपादितत्वात् तथाहि आवश्यके
"अक्खे वराडए चा, कट्ठे पोत्थे य चित्तकम्मे असम्भावमसम्भावं ठेवणाकप्पं विआणाहि ॥ १ ॥” इति । _aarti भावत एव लघुत्वात् काष्ठानां च यादृच्छिकत्वेन अनियतत्वात् किं च स्थाप्यप्रमाणा एव स्थापना यदि अभविष्यत् तदाऽर्हत् स्थापनाऽपि तादशेषाऽकारयिष्यत् अर्हश्च उत्कृष्टतः पश्चशतधनुः प्रमाणं एव, जघन्यतस्तु
971

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393