Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 383
________________ शुभदिने शुभवेलायां शुभमुहूर्ते संघस्य कारकस्य वा चन्द्रबले सति गुरूपदेशेन संघस्य समुदाय सर्व मेलयित्वा देवगृहे समेत्य स्नात्रकरणानन्तरं देवाग्रतः धौतं पवित्रं निश्चलं पट्टकं स्थापयित्वा तदुपरि केशरादितिलकपूर्व ज्ञान-दर्शन-चारित्राणां अनुक्रमेण वन्दुलपुञ्जिकारूपा स्थापना क्रियते, ततो मूलनायकस्य दक्षिणाङ्गे इन्द्र १ अग्नि २ यम ३ नैऋत ४ वरुण ५ ४|| वायु ६ कुबेर ७ ईशान ८ ब्रह्म ९ नागानां १० दशदिकपालानां पूर्ववत् स्थापना क्रियते, ततो मूलनायकवामाङ्गे आदित्य १ सोम २ मंगल ३ बुध ४ बृहस्पति ५ शुक्र ६ शनैश्वर ७ राहु ८ केतु ९ नवग्रहस्थापना क्रियते, ततः तद्दिश्येच चैत्यदेवत्ता १ क्षेत्रदेवता २ देशदेवता ३ स्थापनात्रयं क्रियते, एवं २५ पुञ्जिकानां स्थापना कार्या । तदनु सर्वासां पुञ्जि-है। कानामुपरि बलिपुष्पधूपनैवेद्यवासादिप्रक्षेपः कार्यः । तत: पत्रिकाम च ये देवा, देवमोऽपि गुलणोदिन बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१॥ अनेन श्लोकेन सर्वासामुपरि अखण्डजलधारादानं कार्य, ततः सर्व गृहागते पर्पटादिमिश्रभाजनं बृहत्तरं भृत्वा एकस्य हस्ते दत्त्वा पूर्वदिक्संमुखं भूत्वा जलधारादानपूर्व पूर्वदिशि बलिः प्रक्षिप्यते, तत्र-श्लोकश्चाऽयम्| ऐरावतसमारूढः, शक्रः पूर्वदिशि स्थितः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥१॥ एवमाग्नेय्यां दिशि-आग्नेय्याविदिशः स्वामी, श्रीवहिण्डागवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥२॥ एवं दक्षिणस्यां दिशि-दक्षिणस्या दिशः स्वामी, यमो महिषवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥३॥ एवं नैझतदिशि-याम्यऽपांतरालेऽसौ, नैतिः शबवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥४॥ 279

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393