SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 270 समणे भगवं महावीरे उत्पन्ननाणदंसणधरे अरहा जिणे केवली तियपप्पन्नमणागयवियाणए" इत्यादि । पुनः श्रीभगवत्यां कोणिकसंग्रामे गाढप्रहारजर्जरिताङ्गो नागपौत्रो वरुणनामा पर्यन्ताराधनाऽभिमुखः प्राह “नमुत्थुणं समणस्स भगवओ महावीरस्स आइगररस जाव संपाविउकामस्स मम धम्मायरियस्स त्ति", पुनः श्रीविशेषावश्यकगाथायामपि धर्माचार्यत्वे - "ठवणा विय निअगुरुणो, सुत्ते भंते त्ति जेण गणहारी । आमंतइ तित्थयरं, सेसा य अप्पणो य गुरुं ॥ १ ॥” इति । पुनः श्रीउपदेशमालासूत्रे श्रीधर्मदासगणिनाऽपि प्रोक्तं- "आयरिय[भत्ति ] धम्मरागो, कस्स सुनक्खत्तमहरिसीसरिसो । अवि जीविअं वयसिअं न चैव गुरुपरिभवो सहिओ ॥१००॥” पुनः श्रीपञ्चमाङ्गे सिंहानगारेण रेवत्यग्रेऽपि श्रीमहावीरदेवस्य अर्हतो धर्माचार्यत्वं प्रोक्तमस्ति, एवमनेकेषु स्थानेषु अर्हतो धर्माचार्यत्वं निगदितमस्ति, अतो न कश्चिद्विरोधः । ननु भवतु नाम एकस्यामेव अवस्थायां स्थापनाचार्यो वा स्थापनार्हन् वा, परमसौ स्थाप्यप्रमाणमेव कर्तुमुचितो न लघुतरो महत्तरो वा, तावत्प्रमाणे हि तस्मिन् दृष्टे सोऽयं इति अध्यवसन्ति तद्भकाः, किं नाऽध्यवसितः कृतपुण्यप्रतिनिधिः कृतपुण्य इति तत्पुत्रैः इति वाच्यं । स्थापनाकल्पस्य आगमे अनियत - [मानस्यैव प्रतिपादितत्वात् तथाहि आवश्यके "अक्खे वराडए चा, कट्ठे पोत्थे य चित्तकम्मे असम्भावमसम्भावं ठेवणाकप्पं विआणाहि ॥ १ ॥” इति । _aarti भावत एव लघुत्वात् काष्ठानां च यादृच्छिकत्वेन अनियतत्वात् किं च स्थाप्यप्रमाणा एव स्थापना यदि अभविष्यत् तदाऽर्हत् स्थापनाऽपि तादशेषाऽकारयिष्यत् अर्हश्च उत्कृष्टतः पश्चशतधनुः प्रमाणं एव, जघन्यतस्तु 971
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy