Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 376
________________ सामाचाशत कम् । ॥। १८६ ॥ सप्त हस्तमान एव भवति, तथा च सति तन्मानतो लघुतरात्प्रतिमाः सर्वा अपि अप्रमाणतां प्राप्स्यन्ति, सांप्रतं तु अर्हत् प्रतिभाः लघुतराः प्रतिग्रामं प्रतिनगरं प्रतिदेवगृहं दृश्यन्ते, ततः तासां समाराधनं अफलमेव स्यात् न च तदफलं भवति संविग्नश्रुतधरैः आहतत्वात् । तस्मात् यथा स्वाप्यमानात लघ्योः लघुतरा-लघुतमाऽपि तीर्थकृत्प्रतिमा आराध्यन्ते तथा स्थापनाचार्योऽपि, तथा शीतलाचार्येणाऽपि श्री आवश्य के गुरुस्थापना स्थाने दण्डकः स्थापितोऽस्ति । पुनर्विस्तरार्थिना श्रीसन्देहदोलावलीबृहद्वृत्तिः द्रष्टव्या ॥ ९७ ॥ ॥ इति स्थापनायां पञ्चाऽपि परमेष्ठिन इत्यधिकारः ॥ ९७ ॥ ननु - श्रुतदेवतादीनां कायोत्सर्गः प्रतिक्रमणे क्रियते स सिद्धान्तोक्त्या आचरणया वा क्रियते ? उच्यते- आचरणया, यदुक्तं श्रीहरिभद्रसूरिभिः श्रीपञ्चवस्तुकवृत्तौ ( ८० पत्रे ), तथाहि "हमेरसारण, विणओ उ ण फेडिओ हवइ एवं आयरणा सुयदेवय- माईण होइ उस्सम्मो ॥ ४९१ ॥” वृत्तिः - आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति । ननु इयं आचरणा कदा जाता ? उच्यते - पूर्वधरकाले संभाव्यते यतः श्रीवीरनिर्वाणाद्वर्षसहस्रे गते पूर्वश्रुतं व्यच्छिनं, अथ च श्रीहरिभद्रसूरिस्तु वीरनिर्वाणात् पञ्चपञ्चाशदधिकवर्षसहस्रे व्यतीते दिवं गतः, यदुक्तं "च सयतिपन्नवरिसे ४५३, कालगगुरुणा सरिस्सई गहिआ । चउसयसत्तरिवरिसे ४७०, वीराओ विकमो जाओ ॥ ११ ॥ ततः- “पंचसए पणतीए, विकसकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, निबुओ दिसओ सिवसुखं ॥ १०० ॥” इति । श्रीहरिभद्रसूरिणा 272 कायोत्सर्गाधिकारः ९८ ॥ १८६ ॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393