SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चमः प्रकाशः ॥ ॥ श्रीमत्स्थभणपार्श्वनाथाय नमः ॥ ननु - साध्वीभिर्दशा श्रुतस्कन्धादिच्छेदग्रन्था वाच्यन्ते न वा ? उच्यते - स्वत एव परं न सभाजन्धेन, निषिद्धत्वात् स्वतो वाचनं तु संगतिभङ्गति । यतः तत्तपोवनं तासां निर्दिष्टमस्ति, अन्यथा तत् तपोवहनं अपार्थकं स्यात् अपि च 'अन्नेसिं च | पवेयणीअमिति' ता न भणन्ति, अत एव स्वतो वाच्यते, न वाचना अनुज्ञाता तासाम् ॥ ८९ ॥ ॥ इति साध्वीनां स्वतः कल्पसूत्रादिवाचनाधिकारः ॥ ८९ ॥ ननु - प्रतिक्रमणद्वयं करणे पडावश्यकानां कुत्र कुत्र आद्यन्तौ व्यवस्थापितौ । उच्यते-अत्र वृद्धसंप्रदाय एव तत्र | सायन्तनप्रतिक्रमणे 'करेमि भंते' इत्यत आरभ्य अतिचारकायोत्सर्गपारणं यावत् सामायिकावश्यकं प्रथमं १ । ततश्चतुर्विशतिस्तवप्रान्ते चतुर्विंशतिस्तव आवश्यकं द्वितीयं २ । ततो मुखवस्त्रिकाप्रतिलेखनपूर्वं वन्दनकं आदितः कृत्वाऽऽलोचनासूत्रं यावत् तृतीयं चन्दनावश्यकं ३ । ततः प्रतिक्रमणसूत्रत आरभ्य क्षामणाचन्दनपूर्व आयरियउवज्झाए गाथात्रयप्रान्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं ४ । ततः चारित्रदर्शनज्ञानानां कायोत्सर्गत्र्यकरणेन पञ्चमं कायोत्सर्गाचश्यकं ५ । पृष्ठं तु प्रत्याख्यानरूपं आवश्यकं ६ पूर्वं कृतमिति । प्राभातिकप्रतिक्रमणे तु पडावश्यकानि अनुक्रमेण भवन्ति, तथाहि-- करेमि भंते
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy