Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३००
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-शेषे, छ इति चानुवर्तते । ‘दशे' इति चार्थासम्भवान्नानुवर्तते। अन्वय:-यथासम्भव० राज्ञ: शेषे छ: कश्च ।
अर्थ:-यथासम्भवविभक्तिसमर्थाद् राज्ञः प्रातिपदिकात् शेषेष्वर्थेषु छ:-प्रत्ययो भवति, कश्चान्तादेशो भवति ।
उदा०-राज्ञ इदं राजकीयम्।
आर्यभाषा: अर्थ-यथासम्भव-विभक्ति-समर्थ (राज्ञः) राजन् प्रातिपदिक से (शेषे) शेष अर्थों में (छ:) प्रत्यय होता है (च) और राजन् शब्द से अन्त्य न के स्थान में (क:) क्-आदेश होता है।
उदा०-राज्ञ इदं राजकीयम् । जो राजा का है यह-राजकीय (सरकारी)।
सिद्धि-राजकीयम् । राजन्+डस्+छ। राजन्+ईय। राजक्+ईय। राजकीय+सु । राजकोयम्।
यहां षष्ठी-समर्थ राजन्' शब्द से शेष अर्थों में इस सूत्र से छ' प्रत्यय और राजन् के अन्त्य न्' के स्थान में क्’ आदेश होता है। 'आयनेय०' (७।१।२) से छ' के स्थान में 'ईय्' आदेश होता है। छ:
(५०) वृद्धादकेकान्तखोपधात्।१४०। प०वि०-वृद्धात् ५ ।१ अक-इकान्त-खोपधात् ५।१ ।
स०-अकश्च इकश्च तौ अकेको, अकेकावन्ते यस्य तत्-अकेकान्तम् । ख उपधायां यस्य तत् खोपधम्। अकेकान्तं च खोपधं च एतयो: समाहार:-अकेकान्तखोपधम्, तस्मात्-अकेकान्तखोपधात् (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः)।
अनु०-शेषे, देशे, छ इति चानुवर्तते। अन्वय:-यथासम्भव देशे वृद्धाद् अकेकान्तखोपधात् शेषे छः।
अर्थ:-यथासम्भवविभक्तिसमर्थाद् देशवाचिनो वृद्धसंज्ञकाद् अकान्ताद् इकान्तात् खकारोपधाच्च प्रातिपदिकात् शेषेष्वर्थेषु छ: प्रत्ययो भवति।
उदा०-(अकान्तात्) आरीहणके जातं आरीहणकीयम्। द्रौघणके जातं द्रौघणकीयम्। (इकान्तात्) आश्वपथिके जातं आश्वपथिकीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org