Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 604
________________ चतुर्थाध्यायस्य चतुर्थः पादः ५६७ अनु०-छन्दसि इत्यनुवर्तते । अत्र 'सहस्रेण' इति तृतीयानिर्देशात् तृतीयासमर्थविभक्तिर्गृह्यते । अन्वयः-छन्दसि तृतीयासमर्थात् सहस्रात् सम्मितौ घः । अर्थ:- छन्दसि विषये तृतीयासमर्थात् सहस्र-शब्दात् प्रातिपदिकात् सम्मितावित्यस्मिन्नर्थे घः प्रत्ययो भवति । उदा०-सहस्रेण सम्मितिः- सहस्त्रियः । सम्मितिः=सम्मितः, तुल्यः, सदृश इत्यर्थः। सहस्रिय: = सहस्रतुल्य इत्यर्थ: । 'अयमग्निः सहस्रियः' ( तै०सं० ४ । ७ । १३ । ४ ) । आर्यभाषाः अर्थ-(छन्दसि ) वेदविषय में, तृतीया - समर्थ (सहस्रेण ) सहस्र प्रातिपदिक से (सम्मितौ) तुल्यता अर्थ में (घ) घ प्रत्यय होता है । उदा० - सहस्र = बहुतों के सम्मिति = तुल्य- सहस्रियः । 'अयमग्निः सहस्रिय:' ( तै०सं० ४।७।१३।४) । सिद्धि-सहस्रियः । सहस्र+टा+घ । सहत्र्+इय। सहस्त्रिय+सु। सहस्त्रियः । यहां तृतीया-समर्थ ‘सहस्र' शब्द से सम्मिति=तुल्य अर्थ में इस सूत्र से 'घ' प्रत्यय है | 'आयनेय०' (७/१/२ ) से 'घ्' के स्थान में 'इय्' आदेश होता है । 'यस्येति च' (६/४/१४८) से अंग के अकार का लोप होता है। विशेषः 'सहस्र' शब्द यास्कीय निघण्टु (वैदिक-कोष) में बहु-नामों (३।१) में पठित है। मत्वर्थप्रत्ययविधिः घः (१) मतौ च । १३६ । प०वि० - मतौ ७ । १ च अव्ययपदम् । अनु०-छन्दसि, सहस्रेण, घ इति चानुवर्तते । अत्र प्रत्ययार्थसामर्थ्येन प्रथमासमर्थविभक्तिर्गृह्यते । अन्वयः-छन्दसि प्रथमासमर्थात् सहस्राद् मतौ च घः । अर्थ:-छन्दसि विषये प्रथमासमर्थात् सहस्र - शब्दात् प्रातिपदिकाद् मतु- अर्थे च घः प्रत्ययो भवति । उदा०-सहस्रमस्यास्तीति - सहस्रियः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624