________________
चतुर्थाध्यायस्य चतुर्थः पादः
५६७
अनु०-छन्दसि इत्यनुवर्तते । अत्र 'सहस्रेण' इति तृतीयानिर्देशात्
तृतीयासमर्थविभक्तिर्गृह्यते ।
अन्वयः-छन्दसि तृतीयासमर्थात् सहस्रात् सम्मितौ घः । अर्थ:- छन्दसि विषये तृतीयासमर्थात् सहस्र-शब्दात् प्रातिपदिकात् सम्मितावित्यस्मिन्नर्थे घः प्रत्ययो भवति ।
उदा०-सहस्रेण सम्मितिः- सहस्त्रियः । सम्मितिः=सम्मितः, तुल्यः, सदृश इत्यर्थः। सहस्रिय: = सहस्रतुल्य इत्यर्थ: । 'अयमग्निः सहस्रियः' ( तै०सं० ४ । ७ । १३ । ४ ) ।
आर्यभाषाः अर्थ-(छन्दसि ) वेदविषय में, तृतीया - समर्थ (सहस्रेण ) सहस्र प्रातिपदिक से (सम्मितौ) तुल्यता अर्थ में (घ) घ प्रत्यय होता है ।
उदा० - सहस्र = बहुतों के सम्मिति = तुल्य- सहस्रियः । 'अयमग्निः सहस्रिय:' ( तै०सं० ४।७।१३।४) ।
सिद्धि-सहस्रियः । सहस्र+टा+घ । सहत्र्+इय। सहस्त्रिय+सु। सहस्त्रियः ।
यहां तृतीया-समर्थ ‘सहस्र' शब्द से सम्मिति=तुल्य अर्थ में इस सूत्र से 'घ' प्रत्यय है | 'आयनेय०' (७/१/२ ) से 'घ्' के स्थान में 'इय्' आदेश होता है । 'यस्येति च' (६/४/१४८) से अंग के अकार का लोप होता है।
विशेषः 'सहस्र' शब्द यास्कीय निघण्टु (वैदिक-कोष) में बहु-नामों (३।१) में पठित है।
मत्वर्थप्रत्ययविधिः
घः
(१) मतौ च । १३६ ।
प०वि० - मतौ ७ । १ च अव्ययपदम् ।
अनु०-छन्दसि, सहस्रेण, घ इति चानुवर्तते । अत्र प्रत्ययार्थसामर्थ्येन
प्रथमासमर्थविभक्तिर्गृह्यते ।
अन्वयः-छन्दसि प्रथमासमर्थात् सहस्राद् मतौ च घः ।
अर्थ:-छन्दसि विषये प्रथमासमर्थात् सहस्र - शब्दात् प्रातिपदिकाद्
मतु- अर्थे च घः प्रत्ययो भवति । उदा०-सहस्रमस्यास्तीति - सहस्रियः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org