________________
५६६
पाणिनीय-अष्टाध्यायी-प्रवचनम्
संस्कृतार्थप्रत्ययविधिः यथाविहितम् (यत्)
(१) अद्भिः संस्कृतम् ।१३४। प०वि०-अद्भिः ३।३ संस्कृतम् १।१।
अनु०-यत्, छन्दसि इति चानुवर्तते। अत्र ‘अद्भिः ' इति तृतीयानिर्देशात् तृतीयासमर्थविभक्तिर्गृह्यते।
अन्वय:-छन्दसि तृतीयासमर्थाभ्योऽद्भ्य: संस्कृतं यत् ।
अर्थ:-छन्दसि विषये तृतीयासमर्थाभ्योऽद्भ्यः प्रातिपदिकेभ्य: संस्कृतमित्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति।
उदा०-अद्भिः संस्कृतम्-अप्यम् । 'यस्येदमप्यं हवि:' (ऋ० १०।८६।१२)।
आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में, तृतीया-समर्थ (अद्भिः) 'अप' प्रातिपदिक से (संस्कृतम्) शुद्ध किया हुआ अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है।
उदा०-अप्-जलं से शुद्ध की हुई-अप्य हवि। 'यस्येदमप्यं हविः' (ऋ० १०।८६ ॥१२)।
सिद्धि-अप्यम् । अप्+भिस्+यत् । अप्+य। अप्य+सु । अप्यम् ।
यहां तृतीया-समर्थ अम्' शब्द से संस्कृत अर्थ में इस सूत्र से यथाविहित प्राग्-हितीय 'यत्' प्रत्यय है।
विशेष: (१) 'अप' शब्द 'अपसुमनस्समासिकतावर्षाणां बहुत्वं च' (लिङ्गा० १।२९) से नित्य-बहुवचनान्त और स्त्रीलिङ्ग है। अत: सूत्रपाठ में 'अद्भिः' ऐसा बहुवचनान्त प्रयोग किया गया है।
(२). 'अप:' शब्द यास्कीय निघण्टु (वैदिक कोष) में उदक-नामों (१।१२) तथा कर्म-नामों (२।१) में पठित है।
सम्मित्यर्थप्रत्ययविधिः
घः
(१) सहस्रेण सम्मितौ घः।१३५ । प०वि०-सहस्रेण ३।१ सम्मितौ ७।१ घ: १।१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org