Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य चतुर्थः पादः
५७३
उदा०- (सर्व) सर्व ही- सर्वताति । 'सर्वतातिम्' (ऋ० १० । ३६ । १४) । (देव) देव ही- देवताति । 'देवतातिम्' (ऋ० ३।१९ । २ ) ।
सिद्धि-देवतातिः । देव+सु+तातिल् । देव+ताति । देवताति+सु। देवतातिः।
यहां प्रथमा-समर्थ 'देव' शब्द से स्वार्थ में 'तातिल्' प्रत्यय है। प्रत्यय के लित् होने से 'लिति' (६ 1१1१९०) से प्रत्यय से पूर्ववर्ती अच् उदात्त होता है - देवताति: । ऐसे ही - सर्वतातिः ।
विशेषः 'सर्व' शब्द यास्कीय निघण्टु (वैदिक-कोष) में उदक-नामों (१।१२) में पठित है। 'देव' शब्द यास्कीय निघण्टु में पद नामों (५/६ ) में पठित है । पद = ज्ञान, गम, प्राप्ति करनेवाला (विद्वान् ) ।
करार्थप्रत्ययविधिः
तातिल्—
(१) शिवशमरिष्टस्य करे | १४३ प०वि० - शिव-शम्-अरिष्टस्य ६ ।१ करे ७ । १ ।
स०-शिवश्च शम् च अरिष्टं च एतेषां समाहारः शिवशमरिष्टम्, तस्य-शिवशमरिष्टस्य। करोतीति कर:, अत्र 'डुकृञ् करणे' (तना० उ० ) इत्यस्माद् धातो:. ‘नन्द्रिग्रहिपचादिभ्यो ल्युणिन्यच: ' ( ३ | १ | १३४) इति कर्तरि अच् प्रत्यय: ।
अनु०-छन्दसि, तातिल् इति चानुवर्तते । अत्र प्रत्ययार्थबलेन षष्ठीसमर्थविभक्तिर्गृह्यते ।
अन्वयः-छन्दसि षष्ठीसमर्थेभ्य: शिवशमरिष्टेभ्यः करे तातिल् । अर्थ:- छन्दसि विषये षष्ठीसमर्थेभ्य: शिवशमरिष्टेभ्यः प्रातिपदिकेभ्यः करे इत्यस्मिन्नर्थे तातिल् प्रत्ययो भवति ।
उदा०- (शिव) शिवस्य कर:- शिवताति: (पै०सं० ५ । ३६) । (शम् ) शंकर:- शंन्ताति: (ऋ० ८।१८।७) । (अरिष्टम् ) अरिष्टस्य कर:- अरिष्टताति: ( ऋ० १० १६० १८ ) ।
आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में षष्ठी - समर्थ (शिवशमरिष्टस्य ) शिव, शम्, अरिष्ट प्रातिपदिकों से (करः) करनेवाला अर्थ में (तातिल् ) तातिल् प्रत्यय होता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org