Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text ________________
५५७
चतुर्थाध्यायस्य चतुर्थः पादः यहां षष्ठी-समर्थ 'असुर' शब्द से स्व (माया) अर्थ में इस सूत्र से 'अण्' प्रत्यय है। पूर्ववत् अंग को आदिवृद्धि और अंग के अकार का लोप होता है। स्त्रीत्व-विवक्षा में टिड्ढाणञ्' (४।१।१५) से 'डीप्' प्रत्यय होता है।
विशेष: 'माया' शब्द यास्कीय निघण्टु (वैदिक-कोष) में प्रज्ञा-नामों में (३।९) में पठित है। आसुरी माया-असुर की अपनी प्रज्ञा (बुद्धि)।
आसाम् (षष्ठी) अर्थप्रत्ययविधि: यथाविहितम् (यत्) मतोश्च लुक्- {इष्टकाः} (१) तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च
मतोः।१२५। प०वि०-तद्वान् १।१ आसाम् ६ ।३ उपधान: ११ मन्त्र: ११ इति अव्ययपदम्, इष्टकासु ७।३ लुक् १।१ च अव्ययपदम्, मतो: ६ ।१ ।
तद् अस्मिन्नस्तीति तद्वान् ‘तदस्यास्त्यस्मिन्निति मतुप्' (५ ।२।९४) इति मतुप्-प्रत्ययः । उपधीयन्ते स्थाप्यन्ते इष्टका येन स:-उपधान:, ‘करणाधिकरणयोश्च' (३।३।११७) इति करणे कारके ल्युट् प्रत्यय: । 'तद्वान्' इति प्रथमा-निर्देशात् प्रथमासमर्थविभक्तिर्गृह्यते।
अनु०-यत्, छन्दसि इति चानुवर्तते।
अन्वय:-छन्दसि प्रथमासमर्थाद् तद्वत: (मतुप:) आसां यत्, उपधानो मन्त्रः, इष्टकासु, मतोश्च लुक् ।
अर्थ:-छन्दसि विषये प्रथमासमर्थाद् मतुबन्तात् प्रातिपदिकाद् आसामिति षष्ठ्यर्थे यथाविहितं यत् प्रत्ययो भवति, यत् प्रथमासमर्थमुपधानो मन्त्रश्चेत्, यद् आसामिति षष्ठीनिर्दिष्टम् इष्टकाश्चेत् ता भवन्ति, मतोश्च लुग् भवति।
उदा०-वर्च:शब्दोऽस्मिन्नस्तीति-वर्चस्वान् मन्त्र: । वर्चस्वान् उपधानो मन्त्र आसामिष्टकानामिति-वर्चस्या इष्टका: । वर्चस्या उपदधाति' (तैब्रा० १।८।९।१)। तेजस्या उपदधाति' (तै०ब्रा० १।८।९।१)। ‘पयस्या उपदधाति' (तै०सं० २।३ ।१३।२)। रतस्या उपदधाति (ष०वि० २।१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624