Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 295
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१४॥ अथ समवायात् प्रागपि तस्य सत्त्वमभ्युपगम्यते? तर्हि किं समवायकल्पनया तमन्तरेणापि तस्य सत्त्वसिद्धेः, तद्वदवयविनोऽपि अवयवेषु खत एव अवस्थानप्रसक्तेश्च, न च सत्तासमवायात् पूर्वमवयवी न सत्रापि असन् सत्तासंबन्धात्तु सबिति व्यपदिश्यते इति वाच्यं, सहि सत्तासंबंधात् प्राग् कांचिदर्थक्रियां करोति न वा? करोति चेत् कथं न सन्, न चेत् कथं नासन् , अपि च सत्त्वाऽसवयोः परस्परविरुद्धखेन एकतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वेन उभयनिषेधानुपपत्तेः, भवतु वा सत्तासमवायात् पदार्थानां सत्वं, समवायस्य पुनः कसात् सत्त्वं, समवायान्तरात् चेत् न, तदनभ्युपगमात्, अथ स्वरूपेणैव तस्य सत्त्वमिति चेत् , नन्वेवं पदार्थानामपि तेनैव सत्त्वमस्तु किं समवायेन, ननु यदि समवायस्य स्वरूपेणैव सत्त्वमेताबता सर्वपदार्थानामपि तथैव तदास्तामिति कथमेतदुच्यते, एवंहि कचित्पदार्थे कस्यचित् धर्मस्य दर्शनात् तदृष्टान्तेन सर्वेषामपि तदापादने जगद्वैचित्र्यविलोपः स्यात् , नहि शर्करायाः स्वत एव माधुर्ये शाल्योदनादीनामपि तत्संयोगं विनापि स्वत एव तदस्तु इति युज्यते, इति चेन्न, यदि हि जगति समवायस्य एकस्यैव खतः सचाभ्युपगमः स्यात्, तदा स्वीक्रियेतापि सत्तासम| वायात् तदन्यपदार्थानां सत्त्वं, न चैतदस्ति, यावता समवायवत् सामान्यस्य अन्त्यविशेषाणां च भवता स्वत एव तदंगीकारात्, न च दृष्टान्तेऽपि तर्हि माधुर्यस्य शर्करायामिव क्षीरादिष्वपि भावात् तत्सम्बन्धं विनापि शाल्योदनादिषु तत्प्रसङ्ग इति वाच्यं, शर्कराक्षीरादिमाधुर्यस्य माधुर्यमात्रेण साम्येऽपि अनुभवैकसंवेद्यावान्तरसामान्यभेदेन मिन्नजातीयत्वात् , तथा च पठ्यते-इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् , तथा च तन्माधुर्यस्य भिन्नजातीयत्वेनैव शाल्योदनादीनां तत्संयोगेन माधुर्यविशेषो न खत इत्यपि केनचित् वाचाटेन वक्तुं शक्त्वात् , इह तु समवायस्य स्वतः सत्त्वं द्रव्यादिपदार्थानां च सत्तासमवायात् लि ॥१४॥ 53 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389