Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 445 | बृहद्वृत्तिः R५लि ॥१६५॥ न द्वितीयः, असदुत्पादाभ्युपगमेनापसिद्धान्तप्रसङ्गात् , सतश्चाविर्भावस्थाविर्भावान्तरकल्पनायामनवस्थानात्, ननु असदुत्पाद पक्षेपि अयं समानो दोषः, तथाहि असत उत्पादः किं सन्नसन् वा, संश्चेत् कारणवैयर्थ्यापातः, अथासन् तर्हि तस्यापि उत्पादान्तरं वक्तव्यं, तथा चानवस्था, किं चामिन् पक्षे व्योमारविन्दादेरपि उत्पादापत्तिः, इतिचेन्न, अभिप्रायानवबोधात , द्वेधाहि असदभिधीयते, निःस्वभावं सखभावं च, तत्र निःस्वभावस्य शशविषाणादेनॊत्पादो विनाशो वा,तथाले निःखभावखव्याघातात्, सस्वभावं च कारणव्यापारात् प्राग घटादिकं, तद्धि मृदादिद्रव्यरूपतया सर्वदा सदेव कम्बुग्रीवादिमत्त्वपर्यायरूपतया तु असत्, | तस्य चासतः पर्यायस्य कारणव्यापारानन्तरमुत्पादः, नचैवमत्रापि सदसद्विकल्पाभ्यामसदुत्पादाद्यनुपपत्तितिरिवाच्यं, नहि नैयायिकैरिवास्माभिः सर्वथा प्रागसतः कार्यस्य प्रादुर्भाव उत्पाद इष्यते, येनैतद्विकल्पावकाशो भवेत् , किं तर्हि कारणस्यैव मृत्पिण्डादेस्तादृशसामग्रीमध्यासीनस्य घटादिरूपपर्यायतया परिणामः, कारणान्येव हि तत्तत्सामग्रीसाद्गुण्यात् कार्याभवन्ति, इति भगवत्सिद्धान्तात् , नच कारणस्य कार्याभावे खात्मनि क्रियाविरोधेन कार्यकारणभावानुपपत्तिस्तस्य भेदाधिष्ठानखादितिवक्तव्यं,द्रव्यपर्याययोः कारणकार्यखरूपयोः सर्वथाऽभेदानङ्गीकारात् ,तथाखे द्रव्यमित्येव पर्याय इत्येव वा प्रतीतिः स्यात् ,एवमस्तु इतिचेन्न,उभयव्यवहारस्य सर्वानुभवसिद्धेः,अनन्यथासिद्धकारणान्वयव्यतिरेकानुविधायिखस्य कार्यान्नियतप्राक्कालभावित्रस्य च यथाक्रम कार्यकारणभावलक्षणस्य मृपिण्डघटादिषु द्रव्यपव्यरूपेषूपपत्तेश्च, यथैकसादेव मृत्पिण्डात् सुवर्णगोलकाद्वा तत्त सहकारिसाहित्येन घटशरावोदश्चनादयो मुकुटकटकादयो वा नानाविधा विशेषाः प्रादुर्भवन्ति तिरोभवन्ति च, न तथा कूर्म| देहात् सामग्रीभेदेनापि चरणग्रीवादीन्यङ्गानि प्रादुर्भावतिरोभावाभ्यामन्यथा भावं भजन्ति उपलभ्यन्ते, किन्तु तान्येव तानि KACAAAAAAAAC CRICK ॥१६५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389