Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः ५ लि.
पंचलिंगी तदा को दोषः,किं न श्रूयन्ते लोकप्रवादन मुक्तस्यापि कृष्णस्य तत्तत्प्रयोजनविशेषाद् दशावतारा इत्यत आह 'अनिमित्तिमित्यादि
गाथान्तवर्त्यपि यदिति पदमिह सम्बध्यते तेन यद् यस्माद् हेतोरनिमित्तं निष्कारणकम् , अत्रेत्यत्रापि प्रागिव सप्तमी षष्ठयर्थे ॥१७॥
मन्तव्या तेनास्य मुक्ततया स्वीकृतस्य सुगतविशेषस्य संसाररूपं भूयोऽपि देहाद्यभिसम्बन्धलक्षणं भवखरूपं प्रसज्यत इति क्रियाऽध्याहारः, कर्मसम्बन्धोहि संसारनिमित्तं विपर्यासवासनाजलावसिक्तायां हि आत्मभूमौ कर्मबीजं जन्माङ्करं प्रसुवति, तदुक्तम्- "अज्ञानपांशुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुर जन्तोः ॥१॥" न चासौ तस्येष्यते, तथा च तस्य पुनरावृत्तिनिमित्तं कर्म किं तदीयमन्यदीयं वा, नाद्यः, तस्य मुक्ततया कुशलाकुशलप्रवृत्त्यभावेन तदसिद्धेः, न द्वितीयः, अन्यदीयकर्मणोऽन्येन सम्बन्धाभावात् , सर्वगतात्मवादिमतेन कथंचित्तत्सम्बन्धेऽपि तेनान्यस्य संसारसंचाराभ्युपगमे मुक्तानामपि तदापत्तेः, न च नैय्यायिकैरिव परकीयधर्माधर्माधिष्ठानेन ईश्वरस्य सर्गविधिरिव भवद्भिरपि मुक्त
स्यापि बुद्धस्येह जन्मावृत्तिस्तथोपयते, आस्तां वा पुनरावृत्तिस्तथापि तस्य कदाचित्कथंचित् गर्भाधानादिदुःखसंभेदात् तत्त्वज्ञान ४ विलयेन भाव्यं, तथा च जातेनापि तेन पुनस्तदर्थ यतितव्यं, यतमानस्यापि कर्मसंबन्धाहिततृष्णातरलितान्तःकरणतया तत्त्व
ज्ञानोत्पत्तेः संदेहाधिरोहात्, न चासाक्षात् कृततत्त्वार्थस्तीथिकान् निराकर्तुं क्षमेत, तसात् स्वपक्षव्यवस्थापनाय मुक्तस्यापि पुनरागमनमिति दुराशय, कृष्णस्य चात्यन्तमुक्तावस्थस्यैव शक्तेरचिन्त्यतया सर्वगतखात्मावच्छेदेन मत्स्यादिशरीरस्वीकारेण
संसारावतार इति पौराणिकानामभ्युपगमः, नचैवं भवतां तस्मादसमो दृष्टान्तः, एतेन ज्ञानिनो धर्मेत्यादिश्लोकार्थोऽपि परास्त: लखतीर्थनिकारदर्शनेन परविजिगीषूणामसदादीनामिव रागादिमत्तया परमपदगतेरेवासंभवात् , कुतस्त्वं पुनरागमनमिति गाथा
%A4%ACAMASAX
॥१७१॥
For Private and Personal Use Only

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389