Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 381
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ASARALA5455 5॥२॥" एवं मध्यमजघन्यावगाहोऽप्यावश्यकानुसारेण बोद्धव्यः, स्यादेतत् भवखेवमवगाहः सिद्धानां, तथापि कथं कर्मनिर्म-18| तस्यात्मनस्तत्र गतिरुपपद्यते, उपपत्तौ वा सततं यत्र तत्र गच्छन्नेव वात, नित्यभ्राम्यतश्च तस्यास्सदादिवन्नित्यानन्दमयखमपि कथं श्रद्धीयेत इति चेन्न, पूर्वप्रयोगादिना तत्स्वाभाव्येन तदुपपत्तेः, तथाहि-विवादाध्यासितो जीवो गतिमान् अनुवर्तमानपूर्वप्रयोगजसंस्कारखात् व्यावर्तककराधभिघातघण्टालालावत् कुलालचक्रवच्च, सिध्यत्वतोऽनुमानात् गतिमात्रं तत्तूर्ध्वमेव कथमिति चेत ? तत्स्वभावखादिति ब्रूमः, तथाच प्रयोगः कर्मविनिमुक्तो जीव ऊध्वमेव गच्छति तादृग्नैसर्गिकपरिणामखात् वह्निवद् धमवच्चेत्ति, न चायमसिद्धो हेतुः, आगमात्तत्सिद्धेः, ऊर्ध्वगौरवधर्माणो जीवा इत्युदितं जिनैरितिवाचकमुख्यवचनात, तर्हि | THMA H SIPAHI तद्वदेव वाय्वादिप्रतिघातात् तिरथीनादिगतिखमपि भवेदितिचेन्न, परिमाणुवत् तस्य प्रतिघातासिद्धेः, न च शरीरादिवत् कुड्यादिना परमाणोरपि प्रतिघात इति वाच्यं, नीरन्ध्रमंजूषाद्यन्तर्भूतानामपि मृगमदादीनां बहिर्गन्धाधुपलब्धेः, गुणानां च निष्कमत्वेन निराश्रयाणां निर्गमनायसंभवात् , यदा च अवयविनामपि कर्पूरादीनां सूक्ष्मपरिणामतयैवमप्रतिरोधस्तदा कैव कथा परिमाणोरिति, यद्येवं तत्स्वभावतया सकर्मणोऽपि आत्मन ऊर्ध्वगतिरेव स्यात् , नास्तिर्यगादिगतिस्तथा च बद्धनरकादिगति & प्रायोग्यकर्मणामपि नरकादिगतिर्न स्यात् , एवं चानायासेन खर्गापवर्गादिप्राप्तेः कस्तदर्थ तपोब्रह्मचर्यादिषु प्रयतेत इति चेन्न, मत्रादिना दहनस्वभावस्य वढेर्दाहप्रतिबन्धवत् बलवकर्मणा ऊर्ध्वगामुकस्यापि जीवस्योर्ध्वगतिप्रतिबन्धात् , तथा चाधोगत्याधुपपत्तिः, एवं तर्हि लोकान्तादुपरिष्टादपि गतिप्रसङ्ग इति चेन्न, तदुपग्राहकस्य धर्मास्तिकायस्य तत्राभावात् लोक एव तद्भावप्रति-18 पादनात् तत्सिद्धमेतत् ईषत्प्राग्भाराया उपरि अवगाढा सिद्धा न तु सर्वत्रावस्थिताः, पूर्वप्रयोगादिना तु समयमात्रमेव तेषां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389