Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१८३॥
4%ACAREESARISHADS
वत्थुसहावो एसो देहतिभागूणजीवमाणेण । ईसीपभाराए उप्पिं ओगाहिया सिद्धा ॥ ९९ ॥ व्याख्या-वस्तुनो' मुक्तात्मलक्षणस्य 'खभावः' सात्म्यम् 'एषः' अयं वक्ष्यमाणः, यथाहि वह्निवाय्वोरूप्रज्वलनतिर्यपवने नियोगपर्यनुयोगी नाहतस्तत्स्वभावत्वात् , तथा प्रकृतोऽप्यर्थ इति भावः, यत्किमित्याह-देहस्य, उत्कर्षतः पञ्चधनुःशतप्रमितस्य जघन्यतो हस्तद्वयप्रमाणस्य तदन्तर्वतिनो मध्यममानस्य सिद्धशरीरस्य 'त्रिभागेन तृतीयांशेन, 'ऊन' हीनं यजीवमानम् आत्मपरिमाणं त्रिभागेन देहान्तःपातिजीवप्रदेशशून्यरन्ध्रपूरणात् त्रिभागन्यूनता द्रष्टव्या तेनोपलक्षिताः सिद्धास्तिष्ठंतीति सम्बन्धः, 'ईपत्याग्भाराया' इति, ईपदल्पो योजनाष्टकबाहल्यः पञ्चचखारिंशल्लक्षविष्कम्भखात् 'प्रायभारः' पुद्गलनिचयो मध्यदेशे यस्यां सा ईषत्प्रागभाराअष्टमी पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भारा अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यखात्, अथवा ईपत्याग्भारा मनागवनतखात् तस्या ईषत्प्रारभाराभिधानाया मुक्तिभूमेः, 'उप्पिति' उपरिष्टात् अवगाहन्ते म अवतिष्ठन्ते स, 'अवगाढा' इतः समयमात्रेण गला तत्रावस्थिता इत्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति स इति सिद्धाः, | मुक्तात्मानः, सकलकुशलानुष्ठानफलभावमापन्ना इति भावः, एतदुक्तं भवति सिद्धिशिलाया ऊर्ध्व योजनमात्रे नभोभागे लोकान्तो वर्तते, तमवधीकृत्य च सिद्धिभूम्युपरिवर्तियोजनान्त्यकोशषड्भागे त्रिभागान्वितत्रयस्त्रिंशदधिकधनुस्त्रिंशतीलक्षणे सिद्धानां परमोऽवगाहो धनुः पञ्चशतीमद्देहवतो हि निर्वृण्वतो जीवस्य मुक्तिदशायां देहत्रिभागन्यूनतया भणितधनुःसंख्याप्रमितखेन तावन्नभोभागावगाहोपपत्तेः, तथा चार्षम्, "ईसीपब्भाराए उवरि खलु जोअणस्स जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया ॥१॥ तिन्नि सया तित्तीसा धणुत्तिभागो य कोस छब्भागो । जं परमोगाहो यंतो ते कोसस्स छब्भागे
MOSCACAMASSAMACSC
॥१८३॥
For Private and Personal Use Only

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389