Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१८२॥ पाठवविशुद्धज्ञानोत्पादयिन्तं सन्तानोच्छेदो मावेन कृतार्थतया पालसन्तानान्त्यक्षणवत |न्तानस्य तत्तददृष्टवशात् तत्तन्नरकादिषु अपूर्वापूर्वशरीरादिलामो हि परलोकः, तथा च मुमुक्षुसन्तानान्त्यक्षणवत् संसत्वरमुमर्षसन्तानान्त्यक्षणस्यापि उक्तन्यायेन नियामकाभावात् सन्तानान्तरजनकत्वेन कृतार्थतया परलोकाभावापत्तिः, तस्यैवसन्तानस्य गत्यन्तरेषु देहादिप्राप्त्यभावादिति, तदेवं नात्यन्तं सन्तानोच्छेदो मोक्ष इति स्थितम् , एतेन निखिलाविद्यावासनोच्छेदे विगतविविधविषयाकारोपप्लव विशुद्धज्ञानोत्पादो मोक्ष इति योगाचाराणामपि मोक्षो निरस्तः, हेत्वभावेनाविद्यावासनोच्छेदानुपपत्तेः, विशिष्टभावनाभ्यासो. हि तदुच्छेदहेतुरभ्युपेयते स च सन्तानवतिसकलज्ञानक्षणान्वयिनो नित्यस्यैकस्याश्रयस्यास्वीकारे प्रतिक्षणमपूर्व इव जायमानोऽतिशयाधानायोगात् कथमविद्यावासनामुच्छिन्द्यात्, तथाच तदुच्छेदाभावे तद्वतो विषयाकारोपप्लवात् पूर्वज्ञानाद् विशुद्धज्ञानानुत्पत्तेः, रागादिविरहितं हि चेतो विशुद्धज्ञानमुच्यते, न च रागादिकलुषितात् ज्ञानात् नीरागं तदुदेतुमर्हति, अनादिरागादिमतो ज्ञानसन्तानात् जायमानानामुत्तरेषां क्षणानां ज्ञानरूपताया इव रागादिरूपताया अप्यनुवृत्तेः, समाध्यादिसंस्कारबलाद् रागादिव्यावृत्या नीरागताऽपि भविष्यति, भवतामिवानादिरागादिमतोऽपि आत्मनो वीतरागसमन्यथा सर्वज्ञखानुपपच्या बहुविशीर्यतेतिचेत्, रागाद्युच्छेदहेतोः समाधेः क्षणभङ्गुरखेन ज्ञानक्षणेप्वधिरोपयितुमशक्यखात् , आत्मनि तु स्थिरतया तदधिरोहस्योपपत्तेर्युक्तं वीतरागत्वं, न च गोलोमादेर्दू,दिवद् विसदृशादपि कारणात्कार्योत्पाददर्शनेन रागादिमतोऽपि ज्ञानानीरागज्ञानोत्पादो भविष्यतीति वाच्यम् , एवं हि पृथिव्यादिभूतेभ्योऽपि ज्ञानोत्पत्तिस्वीकारापत्त्या लोकायतमताभ्यनुज्ञातप्रसङ्गात् , अपि च जीवतः सर्वज्ञस्य ज्ञानं विशुद्धमिति सर्वलोकप्रतीतं, तच्च संसारिसत्त्वानां नीलपीताद्याकारतया ज्ञानानि गृह्णाति नवा, यद्याद्यः पक्षस्तदा तदाकारज्ञानग्राहकतया तस तदाकारत्व CREGARCANA ॥१८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389