Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 05554454545453 नोत्पादयेत् , मरणक्षणानन्तरमेव प्रेत्यभाविशरीरादेः सहकारिणोऽभावात् , तथा च परलोकाऽभावप्रसङ्गः, न तृतीयः, अतीन्द्रियशक्तेरनभ्युपगमात् अभ्युपगमेऽपि तस्य सकलक्लेशजालवैकल्येन तच्छक्तेः प्रतिबन्धकाभावात् , तदेवमन्त्यक्षणस्यारम्भकत्वेऽनारम्भकत्वे चान्त्यत्वानुपपत्त्या ज्ञानसन्तानोच्छेदो मुक्तिरिति न संगच्छते, किं चात्मनो बन्धविच्छेदलक्षणत्वात् मुक्तेस्तदत्यन्तोच्छेदखीकारे निरधिकरणत्वेन मुक्तिशब्दार्थासिद्धेः सकलभुवनजनगोचरपरमकरुणादीक्षितस्य च बोधिसत्त्वस्यात्मोच्छेदाय उपदेशप्रवृत्तेरसमीचीनत्वात् सामत्यन्तप्रियस्यात्मनो विनाशाय प्रेक्षावतां तदुपदेशेन प्रवृत्त्यसङ्गतेश्च, तदेतत्सर्व मनस्यभिसंधाय सूत्रकृदाह| 'सन्ताणस्सेत्यादि' सन्तानस्यानादेः ज्ञानकार्यकारणप्रवाहस्य 'न नाश' आत्यन्तिक प्रध्वंसो न भवति, अन्त्यत्वेनाभिमतस्य क्षणस्य | क्षणान्तरारम्भकत्वाभ्युपगमे तदनुपपत्तेः, अथारम्भकत्वं नाभ्युपगम्यते तत्राह-'फलविरहात्, अन्त्यक्षणस्यार्थक्रियाया | अभावात् पूर्वस्य पूर्वस्य प्राच्यस्य प्राच्यस्येति वीप्सया सर्वेषामित्यर्थः, विरहोऽभावोऽपि प्रसज्जत इति शेषः, न केवल| मन्त्यक्षणस्य फलविरहात् असत्त्वं किन्तु तत्पूर्वेषामपि इत्यपिशब्दार्थः, तथाहि यथाऽन्त्यक्षणस्योत्तरज्ञानाजनकत्वेन फल-15 विरहात् अवस्तुसत्त्वं, तथा तत्कारणत्वेनाभिमतस्य पूर्वक्षणस्यापि अन्त्यक्षणलक्षणफलविरहात् तथात्वम् , एवं तत्पूर्वस्यापि इत्येवमखिलज्ञानसन्तानस्यापि अवस्तुसचापत्तिः, ननु मा भूद् अन्त्यक्षणस्य खसन्तानवर्तिज्ञानजनकत्वं तथापि सन्तानान्तरज्ञानजनकत्वं भविष्यति तावता अस्तु तस्य सवमित्यत आह-'संताणतर' इत्यादि' अत्र च सन्तानान्तर इति लुप्तसप्तमीकं पदं तेन स्वसन्तानं विहायाऽन्त्यक्षणस्य सन्तानान्तरे कार्ये कर्त्तव्ये सन्तानान्तरजनकत्वस्वीकार इति यावत् , परलोक' प्रेत्यभावः 'भे' इति भवतां युष्माकं मते 'न प्राप्नोति' न संगच्छते, एतदुक्तं भवति-एकस्यैव ज्ञानस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389