Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 379
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACCORR प्रसङ्गः, अन्ततो नीलपीतादिरूपस्खदेहाकारग्रहेऽपि तस्य साकारत्वात् , तथा च विगतविषयाकारोपप्लवतया तस्य विशुद्धत्वमिति प्रलापमात्रम् , अथ द्वितीयः, तर्हि असर्वज्ञत्वप्रसङ्गः, ज्ञानमात्रग्रहणेऽपि तदीयनीलपीताद्याकाराग्रहणात् निराकारताभ्युपगमे चास्यापसिद्धान्तापत्तिः, सर्वज्ञानानां भवद्भिः साकारत्वस्वीकारात् , एवं च यथेह सर्वज्ञज्ञानस्य विगतविषयाकारोपप्लवत्वं नोपपद्यते तथा मुक्तावपीति कथं विशुद्धज्ञानोत्पत्तिर्मोक्षः स्यात्, न चाविद्यावासनां विना साकारत्वमभ्युपेयते भवता, तथा च मुक्तावपि तदापत्त्या निखिलवासनोच्छेद इत्यसमीक्षिताभिधानं स्यात् , तस्मात् पूर्वापरसकलज्ञानक्षणानुगामुकस्थिरैकात्माऽनङ्गीकारे विशुद्धज्ञानोत्पादो न युज्यते, तथा च य एवाहं रूपमद्राक्षं स एवाऽहं सम्प्रति स्पृशं स्पृशामीत्यादौ पूर्वापरप्रत्यययोः प्रतिसन्धानान्यथाऽनुपपत्त्या सर्वप्रत्ययानामात्मैवैकः प्रतिसन्धाताऽभ्युपेतव्यः, अन्यथा विशुद्धज्ञानहतो - |वनाभ्यासस्थाऽनुपपत्तेः, न चालयसन्तानगतानां प्रतिक्षणं जायमानानां ज्ञानक्षणानामत्यन्तसादृश्यादेकत्वाध्यारोपेणैव प्रति|सन्धानोपपत्तेः, तदतिरिक्तस्थिरैकप्रतिसन्धातृगोचर एकत्वप्रत्ययो भ्रान्त इति वाच्यं, मुख्याभावे भ्रान्तेरपि अनुपपत्तेः, न चैकः प्रतिसन्धाता कचिन्मुख्यः सिद्धोऽस्ति भवतां, तस्मात् तदभ्युपगम एव विशुद्धज्ञानोत्पादो घटामियर्तीति, एवं च नित्यस्थात्मन एव नित्यज्ञानानन्दमयस्वभावाभिव्यजक आत्यन्तिकसकलकर्मविगमो मोक्ष इति व्यवस्थितमिति गाथार्थः ॥९८॥ तदियता प्रावादुकाभिहितमोक्षस्वरूपनिरासेन स्वपक्षलक्षितमुक्तिखरूपमुपपादितं, सांप्रतमात्मनः सर्वगतत्वेन 'मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिता, इति वचनान्मुक्तात्मनामपि तथात्वेन सर्वत्रावस्थितिरिति ये प्रतिजानते तन्मतमपाकरिष्यनात्मनो देहमात्रत्वव्यवस्थापनेन प्रतिनियतमानस्थानलक्षणविशेषणप्राधान्यविवक्षया मुक्तात्मनां वरूपनिरूपणायाह AAAAAAAA ERACROCOLX For Private and Personal Use Only

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389