Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तज्ज्ञानं च तद्विद्यते येषां ते तथा अनन्तसंविद इत्यर्थः, 'सदा' शश्वन तु कदाचिदेव तदावारककर्मणस्तादृकारणसामय्याऽऽहत्यन्तिकक्षयेण शीतलिकाव्याधेरिव पुनः प्ररोहाभावात् 'सिद्धाः' निर्वृत्तात्मानः, यथा च तेषामनन्तज्ञानित्वं तथा सर्वज्ञ
सिद्धौ प्राक्प्रतिपादितमिति गाथार्थः ॥ १०॥ इदानीमास्तिक्यमुपसंहरंस्तद्वतः सम्यग्दृष्टित्वनिर्णयप्रदर्शनपूर्वकं तस्यैव लिङ्गत्वं समर्थयन्नाह
इय भावणासमेओ सम्मद्दिहीन इत्थ संदेहो । इत्तुचिय लिंगमिणं अवहिचारी ससझेणं ॥ १०१॥ व्याख्या-इत्युक्तनीत्या भावना यथावदर्हदुक्तजीवादिनवतत्त्वगोचरैवाऽऽस्तिक्यबुद्धिः, तया 'समेतः, सम्पन्नः 'सम्यग्दृष्टिः' प्राप्तसम्यक्त्वगुणस्थानः 'न' नैव अत्र सम्यग्दृष्टित्वेऽस्य 'संदेहः' संशयः, ऊर्ध्वतादिसामान्यधर्मवति धर्मिणि दोलायमानस्थाणुपुरुषाकारप्रत्ययवत् पुरुषत्वादिसाधारणधर्मयोगिनि प्राणिनि सम्यग्दृष्टित्वमिथ्यादृष्टित्वलक्षणोभयकाद्युल्लेखी प्रत्ययः स नास्त्येव, सम्यग्दर्शनोपपादकमिथ्यादर्शनव्यावर्तकास्तिक्यधर्मोपलम्भेन स्थाण्वादाविव चक्रकोटरादिविशेषधर्मदर्शनेन न्याय-18|| निर्णीतेऽर्थे तव्यावृत्तेः, इदमुक्तं भकति संदिग्धेऽर्थे न्यायः प्रवर्तते, नाज्ञाते, न निश्चिते, न खलु नालिकेरद्वीपवासी धूमदर्शना
दपि अग्निरत्रेति निश्चिनोति, आजन्मानुपलब्धपूर्वतया धूमाम्योस्तेन प्रतिबन्धाग्रहणात् , नापि गृहीतप्रतिबन्धा अपि ज्वाला18 जालजटिलमनलमवलोकयन्तोऽनुमातारस्तन्निश्चयाय लिङ्गं मृगयन्ते दृढतरप्रत्यक्षेणैव च तत्सिद्धेः, किं नाम पर्वतनितम्बादि
व्यवहिततया संदिह्यमानस्यैव तस्य परिच्छित्तये, तथा चाह न्यायभाष्यकारः "नानुपलब्धे न निणीते न्यायः प्रवर्तते किं तर्हि |
For Private and Personal Use Only

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389