Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१८४॥ SOCROMANCE गतिः, तावतैव तज्जनितसंस्कारस्य विलयादिति न तेषां सततमितस्ततः परिभ्रमणेन नित्यानन्दसंवेदनव्याघात इति गाथार्थः ॥९९ ॥ सांप्रतं सामान्यजीवस्वरूपप्रतिपादनपुरस्सरं सिद्धानन्तज्ञानमयखोपदर्शनच्छमना ज्ञानशून्या एव मुक्तात्मान इति कुतीर्थ्यमतमपाकुर्वन्नाहजदणंतनेयनाणी जीवो कम्मेहिं वेढिओ न तहा । ता कम्मक्खयभावे अणन्तनाणीणो सया सिद्धा ॥१०॥ ___ व्याख्या-यमाद्धेतोरनन्तज्ञेयेषु सकललोकालोकवर्तिषु प्रमेयेषु 'ज्ञानी' वेदिता यथावस्थितनिखिलौकाल्यभाविपदार्थसम्य परिच्छेदनिपुण इत्यर्थः, 'जीवः' सामान्येन संसार्यात्मापि, इह च जीव इति सामान्यविवक्षयैकवचनोपन्यासेऽपि यदने सिद्धा इति बहुवचनाभिधानं तद्विशेषविवक्षयेति न विरोधः शङ्कनीयः, अथ यद्येवं खभावो जीवः कथं तर्हि पदार्थेष्वस्मदादीनां सन्देहाज्ञानविपर्ययोत्पादः, कथं चातीतानागताधर्थानवसायः, कथं वा व्यवहितविप्रकृष्टार्थानामसाक्षात्कार इत्यत आह-'कर्मभिः' ज्ञानावरणादिभिश्चतुर्भिर्घातिसंहर्वेष्टित आच्छादितोऽनादितत्सम्बन्धात् विलुप्तविशिष्टचैतन्य इत्यर्थः, 'न तथेति' युगपदनन्तभावतत्पर्यायावभासनपटिष्टो न भवति, न खलु पदार्थसार्थप्रकटनपटुप्रभापट लवानपि प्रभाकरः खर्भानुमण्डलतिरोहितवपुः पदार्थमात्रमपि भासयितुं प्रभविष्णुः, एवं च कर्मपटलावतकेवलज्ञानविलोचनानामसदादीनां कथं विषयेषु संदेहादयो नाविर्भवेयुः, कथं चातीतादिविप्रकृष्टादिपदार्थेषु सम्यक्प्रतीतिः प्रादुःष्यात् , यसादेवं 'ता' इति तसात् कारणात्कर्मक्षयभावे निःशेषतया ज्ञानावरणादिकर्ममलापगमसंभवे 'अनन्तज्ञानिनः, अनन्तज्ञेयविषयखात् अक्षयत्वाच्च, अनन्तं तच्च ACCEKACACC ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389