Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AAAACARRORERAKA
रूपसम्यक्खकार्यतया तत्वार्थविषयसत्यखबुद्धित्वेनाऽऽस्तिक्यस्य ततो विशेषात् कार्येण कारणानुमानस्य च पूर्ववच्छेषवदित्यादि-12 सूत्रेऽयं देशोऽभूत् वर्षावान् फलकाष्टादिवाहिफेनिलनदीपूरवत्त्वात् प्रागुपलब्धतादृग्देशवद् इत्यायुदाहरणोपन्यासेन परैरपीष्टत्वात् , | विरुद्धादिहेत्वाभासोद्धारश्च स्वयमूहनीय इति । स्वान्तध्वान्तचयं कपाटविवरनिर्गत्वरेणौजसा तज्ज्ञा जात्यमणिं यथाऽपवरकान्त -1 समध्यासितम् । येनोचैरनुमिन्वते तनुमतां सम्यक्त्वमन्तस्थमप्यास्तिक्यं श्रुतमूत्रितार्थविषयं तद्दत्तचित्ते जना इति गाथार्थः॥१०॥ न रजनिकृतसाफल्यं सदा न नक्षत्रबुधपरिगृहीतम् । अस्तिकुलं चान्द्रमहो न तमो हत्या येन प्रथितम् ॥१॥ तंत्र न वियति प्रसितो बुधो नवीनो न सूर्यसहचरितः । अनिशापतितनयः श्रीजिनेश्वरः मूरिरजनिष्ट ॥२॥ यस्मिन् गोष्ठयां कलयति कला हेलया जल्पकेली कैण्डलानामपि निरवधिखेदधाराप्रवाहम् । शङ्के सारस्वतरसरयं क्षोभतापानुषङ्गादङ्गान्यन्तःप्लवन शुभगं वादिनामुमन्ति ॥३॥ संप्राप्ते विधेयतापदमिति चौलुक्यमाणिक्यतां श्रीमहुर्लभराजि जल्पकथया बल्गद्विकल्पस्पृशा । प्रत्याख्यायत देवदैवकुलिकान् दानमत्कन्धरान् संविनवतिनां विहारपदवीं श्रुत्या समाधत्त यः॥४॥ शिष्यो
| १ नरेत्यादि, न नैव रजने रात्रेः कृतं साफल्यं, प्रकाशादिना येन, नैव नक्षत्रबुधाभ्यां तमोहल्या ध्वान्तध्वंसनेन प्रथितं न चेति विरोधः, चान्द्रकुलं
तु गच्छसमुदायरूपं, नरजनेर्मय॑जन्मनः खर्गादिहेतुत्वेन कृतसाफल्यं सदाननैः प्रसन्नतया शोभनयकैः क्षत्रबुधैः, नताना मोहत्याजने प्रसिद्धम् । २ तत्रहि | वियति प्रतिबद्धो नवीनः प्रत्ययः सूर्यसहचरितो निशापतितनयश्च बुधो भवति, अयंतु नवीनोऽपूर्वो बुधो विचक्षणः, नैव विरुद्धयति प्रतिबद्धो नवीनो विगतखा| मिकः न च सूरिभिराचार्यविद्वद्भिर्वा सहचरितः, अनिशम् अपतितनयः, अभ्रष्टाचारः। ३ कण्डूलानां चादखर्जुयुक्तानां । ४ वादिनोजयपराजयप्राप्ती सन्मानखलीकारविधानसमा राजादिरजुविधेयः।
For Private and Personal Use Only

Page Navigation
1 ... 383 384 385 386 387 388 389