Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ALSACASS
आत्मा स्वरूपेण शाश्वतज्ञानसुखवान् तत्स्वभावखात् , यो यत्स्वभावः स शश्वत्तद्वान् यथा प्रकाशशैत्यखभावः सुधांशुः शश्वत्तद्वान् , तथा चार्य, तस्मात्तथेति, तत्स्वभावत्वस्य चासिद्धबादिपरिहारः प्रागेव सर्वज्ञसिद्धौ कृत इति नेहोच्यते, आगमस्तु "अह सबदवपरिणामभावविणत्तिकारणमणतं ॥ सासयमप्पडिवाई एकविहं केवलन्नाणं ॥ १॥ केवलनाणुवउत्ता जाणंती सवभावगुणभावे ॥ पासंति सबओ खलु केवलदिट्ठीहिं गंताहिं ॥२॥ नित्थिण्णसबदुक्खा जाइजरामरणबंधणविमुका ॥ अवावाहं सुक्खं अणुहुंती सासयं सिद्धा ॥३॥ इत्याद्यागमेन च मुक्तानां नित्यज्ञानसुखप्रतिपादनात् , भवतामपि विज्ञानमानन्दं ब्रह्म, आनन्द ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते इति श्रुत्योरन्यथानुपपत्त्या तत्सिद्धिप्राप्तेः, अत्रहि विज्ञानानन्दयोः सामानाधिकरण्याभिधानमात्मापरनाम्नो ब्रह्मणस्तत्वभावलं सूचयति, तथाचेन्द्रियजन्यत्वात्तद्भिन्नाभिन्नखभावयोस्तयोरात्मन इव परिणामिनित्यखम् , अभिव्यज्यते इतिपदादपि नित्यसमवसीयते, अभिव्यक्तिर्हि आवरणापनयनं तच्च विद्यमानस्यैव भवति, तथा च संसारावस्थायां सबपि आनन्दो नानुभूयते तदावरणस्य कर्मणः सत्वात् , मुक्तौ तु तस्यात्यन्तिकक्षयात् भवत्येव नित्यं तदनुभवः, अथाभिव्यक्तिः संवेदनं तथापि तस्य नित्यवं, सतोऽपि तस्य संमृतावावरणसंभवेनासंवेदनात् , मुक्तौ तु तदभावेन वेदनात्, नन्वात्मनो ज्ञानखभावखात् भवतु कायादिविरहेऽपि ईश्वरज्ञानवन्मुक्तौ तज्ज्ञानं नित्यं, सुखं तु कथं नित्यं देहायभावे तस्य कचिदपि अनुपलम्भादिति चेन्न, अस्ति तावत् प्रेक्षावत्प्रवृत्तेरनौपाधिकहितप्राप्त्यर्थप्रसाधनेन मुमुक्षुप्रवृत्तेरपि तदर्थतया मुक्तौ सुखं, नच तत् | कायादिहेतुकं, मुक्तौ तदनङ्गीकारात् , ततो ज्ञानवन्नित्यं स्वसंवेद्यं जीवस्वभावरूपं तदभ्युपेयं, भवावस्थायां च तदसंवेदनमावा-13/ रकसामात् अत एव तस्य मन्दतरतमादिभावेनोपशान्तमोहादिगुणस्थानमध्यासीनस्य समाहितमनसः सर्वत्र सामायिकभाव
CACACANCLASSACSC
For Private and Personal Use Only

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389