Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 373
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः ५ लि. पंचलिंगी दन्तरेणात्मैव अभ्युपेतः स्यात् , तस्य चातिशयाधानेन बन्धमोक्षयोः सूपपादत्वात् , नच नित्यस्याविकार्यतया तदनुपपत्तिरिति वाच्यम् , एकान्तनित्यता निरासेन परिणामिनित्यस्यैव तस्यासाभिरङ्गीकारात् , तथा च कथं तयोरनुपपत्त्या आत्माभाव एव ॥१८॥ श्रेयानित्युल्लापो भवतः शोभेत, अथ द्वयमपि सन्तानस्य संवृत्तिसदेव अभ्युपेयते तर्हि सन्तानिनां ज्ञानक्षणानामेव वस्तु सत्त्वं तेषां चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोरनुपपत्त्याऽन्यस्य बन्धोऽन्यस्य च मोक्ष इति स्यात् , तथाचैकस्यानुगतस्याभावेन को मुक्त्यर्थ प्रवर्तेत, अथ सन्तानिभ्योऽव्यतिरिक्त एव संतानस्तथापि सन्तानिनामनेकत्वादिना प्रागुक्त एव दोषः, न चास्य सन्तानस्यानागतानुत्पादलक्षणो मोक्षः संगच्छते ज्ञानक्षणस्य ज्ञानक्षणान्तरजननस्वभावत्वेन अनागतानुत्पादानुपपत्तेः, एवमनभ्युपगमेऽन्त्यक्षणानुपपत्त्या सन्तानस्यैवाभावप्रसङ्गात् , तथा हि अन्त्यक्षणः किं किंचिदारभते नवा ? न प्रथमः, स हि | उपादानतया आरभते सहकारितया वा, उपादानत्वमपि स्वसन्तानवर्तिनं ज्ञानक्षणं प्रति सन्तानान्तरवर्त्तिनं प्रति वा, नाद्यः, खसंतानवर्त्तिनमालयज्ञानक्षणं प्रति वा, रूपादिप्रवृत्तिज्ञानक्षणं प्रति वा, उपादानत्वे तस्यान्त्यक्षणत्वानुपपत्तेः, भाविनः कार्य कारणप्रवाहस्य तदवस्थत्वात् , नापरः, पुत्रज्ञानस्यापि गर्भाधानानन्तरविपद्यमानजनकान्त्यज्ञानक्षणोपादेयत्वापत्तेः, न चापूर्वालयज्ञानसन्तानान्तरं प्रति तस्योपादानत्वमिति वाच्यम्, अनादिकालभाविनामन्यूनातिरिक्तानामेव आलयसन्तानानां जगति संभवाभ्युपगमेन अपूर्वेषां प्रयत्नशतेनापि उत्पादासिद्धेः, अथासौ अपूर्वालयसन्तानं मोपपादित तथापि सदेव किंचिदालयसन्तानान्तरं प्रवृत्तिज्ञानसन्तानान्तरं वोपादास्यत इतिचेन्न, तदुभयमपि प्रति तस्यैवालयसन्तानान्तरस्य प्रवृत्तिसन्तानान्तरस्य वा तत्प्राच्यक्षणानामेव उपादानत्वोपपत्तौ तदितरोपादानकल्पनायां प्रमाणाभावात् नहि एकस्यैव ज्ञानस्य उपादानद्वयकल्पनं ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389