Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 372
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit भाव इति सिद्धमितिगाथार्थः ॥९७ ॥ तदेवं स्वाभिमतमोक्षस्वरूपप्रतिपादनेन नैयायिकाद्यभ्युपेतं मोक्षमपाकृत्य संप्रति मागतवदर्शननिर्मूलितनिखिलसवासनाक्लेशपटलस्य अत्यन्तज्ञानसन्तानोच्छेदो मोक्ष इति ये प्रतिजानते माध्यमकास्तन्मतमपाकुर्वनाह संताणस्स न नासो फलविरहा पुत्वपुत्वविरहोवि ॥ संताणन्तर कज्जे परलोगो भे न पाउण ॥ ९८॥ व्याख्या-एष हि तेषामाशयः-संसारिणोहि बद्धस्य मोक्षः, रागादयश्च बन्धहेतवः, नचैते एकान्तनित्ये आत्मनि बन्धमाधातुमीशते नित्यस्याविकार्यखात् बन्धस्य च आत्मनः कर्मसंश्लेषरूपतयोपघातानुग्रहकारितया च विकारत्वात् तद्धेतुत्वाच, तस्मामात्मनो बन्धस्तदभावाच्च न मोक्षः, तथाच तयोरनुपपत्त्या तादृशस्य आत्मनोऽभाव एव श्रेयान् ज्ञानस्य तु कार्यतया विकाराहत्त्वेन रागादियोगाद् बन्धः, कथंचिद् भावनावलेन तद्विगमाच्च मोक्ष इत्युपपद्यते, अयमेव च तस्य मोक्षो यद् विनाश इति, एतदयुक्तं ज्ञानस्य क्षणिकत्वेन विनाशस्य च निर्हेतुकत्वेनोत्पादानन्तरं तस्यायनसिद्धत्वात् , नच ज्ञानक्षणस्य रागदिभिर्बन्धः आपादयितुं शक्यते एकान्तनित्यस्येव एकान्तानित्यस्यापि अविकार्यतया रागादियोगवियोगासंभवात् , तथा च सति बन्धाभावात् कथं मोक्षः, ननु मा भूत ज्ञानक्षणस्य मोक्षस्तत्संतानस्य तु भविष्यति सहि ज्ञानानामेवानादिः कार्यकारणप्रवाहस्तस्य चैक| त्वात् अक्षणिकत्वाच रागादियोगाद् बन्ध उपपत्स्यते, भावनाद्यतिशयाधानाच्च तद्विगमेन भावितत्प्रवाहात्यन्तानुत्पादलक्षणो | मोक्षश्च घटिष्यत इति चेन्न, सन्तानस्य हि यदि सन्तानिभ्यो व्यतिरिक्तस्यैकत्वमक्षणिकत्वं च परमार्थसद् इष्यते, तदा नामा-181 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389