Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 364
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूरत्वादिनिमित्ताद्नामान्तःस्थोऽयमिति तत्प्रत्ययस्य मिथ्यात्वप्रतीतेरुपपत्तेः,तदेवं कल्लोलन्यायेनोत्पादविनाशक्त्वेऽपि ज्ञानमात्म& नोन भेत्स्यते, नचाभेदोपिएकान्तेनेष्यते, भिन्नव्याहारव्यवहारादिगोचरखेन कथंचित्तयोर्भेदात् , एकान्ताभेदे गुणगुणिभावस्यैवासिद्धेः,अत एव भेदपक्षे पर्यायविनाशोत्पादाभ्यां न पर्यायवतोऽपि तदापत्तिः, कटकेयूरादिपर्यायोत्पादविनाशाभ्यामपि हेम्नस्तदनुपलम्भात् , यदपि नित्यचैतन्यानन्दरूपता मुक्तावात्मनो नासदादिप्रत्यक्षावसेया इत्यादि तदपि न युक्तम् , असत्प्रत्यक्षागोचरत्वेऽपि तस्याः सर्वज्ञप्रत्यक्षविषयखात् तस्य च प्रागेव प्रसाधितखात्, यत्तु नित्यत्वेऽपि संसारावस्थायां सा न संवेद्यते तत्केवल ज्ञानावरणकर्मणा प्रतिबन्धात्, शरीरादिना तुन तत्प्रतिबन्धः, प्रत्युत तस्य तत्सहकारित्वं, शरीरवत एव परमयोगिनः शुक्लध्यान४ प्रकर्षात् सर्वथा ज्ञानावरणक्षयेण स्वसंवेद्यनित्यज्ञानाभिव्यक्तिसिद्धेः, एवं तर्हि शरीरादिसहकारिविरहात् मुक्तौ तदभिव्यक्ति-13 नाशप्रसङ्ग इति चेन्न, सहकारिविनाशेऽपि कार्यस्याविनाशात् , अन्यथा कुलालविनाशे घटस्यापि विनाशापातात्, यद्येवं ज्ञानवत्तदानीं नित्यसुखस्यापि अनुभवप्रसङ्ग इति चेन्न, तत्प्रतिबन्धकस्य ऐन्द्रियकसुखाद्यनुभावकस्य वेदनीयकर्मणस्तस्यामपि अवस्थायामत्यन्तानुच्छेदात् , यदपि प्रेक्षावत्प्रवृत्तिवस्यान्यथाऽसिद्ध्या मुमुक्षुप्रवृत्तेरहितनिषेधार्थखसमर्थनं तदपि असंगतं पुरुषार्थसियर्थखात् प्रेक्षावत्प्रवृत्तेः, अहितनिषेधस्य च खरूपेणापुरुषार्थखात् नहि अहितनिषेध इत्येवासौ पुरुषेणेष्यते, किं नाम सत्येवामिन् सुखं भवतीत्याशयात् , तर्हि निधुवनादिसुखे सत्येव रिम्सादिदुःख व्यावर्त्तते इति दुःखव्यावृत्त्यर्थमेव निधुवनादिसुखं काम्यते न खरूपेण इत्यपि कथं न स्यात् इति चेन्न, तस्य स्वभावेनैव काम्यमानखात् , अहिसिंहादिभ्योऽपमृतौ दुःखव्यावृत्तिरपि स्वरूपेणवेष्यत इति चेन्न, तत्रापि तस्या भाविसुखलिप्सयैवेष्यमाणखात्, न च सुखस्यापि दुःखव्यावृत्तिवाञ्छया स्पृह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389