Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धृत्तिः ॥१७७॥ 45XASRUSSISRKS मधिरूढस्य महामुनेर्भवस्थस्यापि प्रकर्षतारतम्येन खानुभाव्यः परमानन्दः श्रूयते, न च प्रकाशालादस्वभावयोस्तादृशोर्ज्ञानसुखयोः भवावस्थायामपि नावरणसंभव इति तत्रापि तदनुभवेन भाव्यमिति साप्रतं, तादृशोरपि सूर्यचन्द्रयोः स्वर्भानुमण्डलेन तिरोधानदर्शनात् , ननु तथापि न कायादिकारणं विना कृतस्य सुखस्योपलम्भ इति मुक्तावपि तदपेक्षा प्राप्तिरितिचेन्न, विकल्पासहखात्, किमस्योत्पत्तौ कायापेक्षा प्रसंजते, अभिव्यक्तौ वा, उत ज्ञप्ती, आहो स्थितौ, न प्रथमः, उत्पत्त्यस्वीकारात् स्वीकारे वा तस्यानित्यखेन विनाशे सुखस्यापि विनाशप्रसङ्गात् , तथा च मुमुक्षुप्रवृत्तर्हितप्राप्त्यर्थता विलीयते, प्रसाधिता चासौ प्राग, न द्वितीयः, तस्या अपि मुक्तिदशायामेव संभवात् तत्र च तदपेक्षायां पूर्वविकल्पोक्तदोषापत्तेः, न तृतीयः कार्य विनापीश्वरज्ञानस्येव प्रकृत सुखस्यापि ज्ञप्त्युपत्पत्तेः, न चतुर्थः, प्रलये संसारिजीवानां भवदुपगमेन कायावच्छेदमन्तरेणापि धर्माधर्मसंस्काराणामिव मुक्तौ । सुखस्यापि तत्संभवाविरोधात् , ननु एवं तर्हि भवतु नित्यं सुखं तथापि संसारिसुखेनेव तेन दुःखशवलेन भाव्यं दुःखविविक्तस्य तस्य कचिदपि अदर्शनात् , तथा च किं तेन विषसंपृक्तपायसकल्पेन तादृशस्य तस्येहापि भावादिति चेन्न, वैषयिकसुखस्यैव दुःखहेत्वनुषङ्गेण तच्छबलखात् तस्य तु जीवस्वभावतयाऽऽनौपाधिकखात् दुःखहेखनुषङ्गाभावेन तद्विरहितखात्, यदपि लौकिकदृष्टान्तेनाऽऽनन्दं श्रुतेर्भाक्तखाभिधानं तदपि न समीचीनं, मुख्यार्थबाधेन गौणार्थकल्पनावकाशात् इहतु मुखस्य नित्यसुखस्य प्रसाधनेन बाधकामावाद् दुःखाभावे सुखशब्दोपचारानुपपत्तेः, किं चान्यत्रोपलब्धस्य मुख्यस्यार्थस्य कचिदुपचारः क्रियते, अग्नेरिव माणवके, न च मुमुक्षूनधिकृत्य कचित्सुखं भवतोपलब्धं सर्वस्य सांसारिकसुखस्स दुःखपक्षनिक्षेपेण तत्प्रवृत्ते| रहितहानार्थता लक्षणैकरूप्येणैवाभ्युपगमात्, एवं च दुःखाभावे किमुपचर्येत, न च दुःखाभावः स्वरूपेण पुरुषार्थो येन यथा MARCCCCOMMERCSCRACCO ॥१७७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389